Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तत्कुर्वेऽपोषणेनैव, विशुद्ध पर्वपौषधम् ॥ २९॥ शङ्खमागमयन्ते स्म, श्राद्धास्ते सज्जभोजनाः। अनागच्छति तस्मिंश्च, तदाहानाय तगृहे ॥ ३० ॥ शतकापरनामा द्राक्, पुष्कली श्रावको ययौ । शङ्कभार्योत्पला चास्य, चकाराभ्यागतोचितिम् ॥३१॥ युग्मम् । ततः पौषधशालायां, शङ्खाख्यायां विवेश सः प्रतिक्रम्योपथिकं, शङ्खश्रावकमित्यवक ॥३२॥ सिद्धमन्नादि तच्छीघ्रमागच्छ श्रावकबजे । तद्भुक्त्वाऽद्य यथा पर्वपौषधं प्रतिजागृमः |॥३३॥ ऊचे शङ्कः पौषधिकोऽपोषणेनास्मि सोऽप्यथ ।न्यवेदयत् तत्सर्वेषां,तत्ते बुभुजिरे ततः॥३४॥ शङ्कोऽथापारयित्वैव, पौषधं प्राणमन्जिनम् । प्रातः श्राद्धाः परेऽप्येवं, शुश्रुवुर्देशनां प्रभोः॥३६॥ देशनाऽन्ते श्रावकास्ते, गत्वा शङ्कस्य सन्निधौ । अवादिषुरुपालम्भं, ह्यः साध्वस्मानहीलयः॥३६॥ ततस्तान भगवानूचे, मा शङ्ख हीलयन्तु भो।। सुदृष्टिदृढधर्माऽयं, सुष्टु जागरितो निशि॥३७॥ एवं यो वर्द्धमानेन, स्तुतस्तादृशपर्षदि। विदेहे। सेत्स्यमानोऽसौ, पञ्चमाङ्ग उदीरितः॥ ३८॥ खर्गेऽस्यायुरपि प्रोक्तं, श्रुते पल्यचतुष्टयम् । षष्ठो जिनस्तु श्रीमल्लिजिनस्थाने भविष्यति ॥ ३९॥ ततश्च-संख्येय एव कालः स्याद्भाविषष्ठजिनोदये । तत् षष्ठजिनजीवो यः, शोऽन्यः सेति बुध्यते ॥४०॥ स्थानाङ्गवृत्तौ स्वयमेव शडो भावितीर्थकृत्तया प्रोक्तस्तदाशयं न वेनीति | जीवः शङ्खस्य षष्ठोऽर्हन् , भावी देवश्रुताभिधः। भविष्यत्युदयाख्योऽर्हन्नन्दीजीवश्च सप्तमः॥४१॥ अष्टमो-12 ऽहेन् सुनन्दस्य, जीव: पेढालसंज्ञकः । आनन्दजीवो नवमः, पोटिल्लाख्यो जिनेश्वरः ॥४२॥ दशमः शतक१ श्रीस्थानाङ्गवृत्तौ हि शङ्खस्य भावितीर्थकृत्त्वोक्तावपि न षष्ठजिनतयोक्तिः ततो नामान्तरेणान्यजिनपूर्वभवः स्यात् ॥ .
Jan Educa
For Private Personel Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106