Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लो. प्र. ९३
भकूटेभ्योऽन्यान् धराधरान् । गङ्गासिन्ध्वादिसिन्धुभ्यः, परान् सर्वान् जलाश्रयान् ॥ ६५ ॥ विध्वस्येत्यादिकान् सर्वान्, भावांस्ते विषमा घनाः । भस्मीकुर्वन्ति दशसु क्षेत्रेषु भरतादिषु ॥ ६६ ॥ पञ्चभिः कुलकं । वर्षन्ति वैतात्यादीनामुपर्यपि घना अमी । तत्रस्था अपि नश्यन्ति, खेचरास्तत्पुराणि च ॥ ६७ ॥ किंतु ते भूधरास्तेषां, प्रासादाः शिखराणि च । न मनागपि भिद्यन्ते, शाश्वतं ह्यविनश्वरम् ॥ ६८ ॥
अस्मिंश्च भरतक्षेत्रे, श्रीशत्रुञ्जयपर्वतः । तत्रापि काले भविता, शाश्वतप्राय एव यत् ॥ ६९ ॥ अशीतिं योजनान्येष, विस्तृतः प्रथमेऽरके । द्वितीये सप्ततिं षष्टिं, तृतीये कथितोऽरके ॥ ७० ॥ योजनानि च पञ्चाशचुरीये पञ्चमे पुनः । योजनानि द्वादश स्युः, सप्त हस्तास्ततोऽन्तिमे ॥ ७१ ॥ उत्सर्पिण्यां कराः सप्तारके ह्याये द्वितीयके । योजनानि द्वादश स्युर्मानमेवं परेष्वपि ॥ ७२ ॥ पञ्चाशतं योजनानि, मूले यो विस्तृतोऽभवत् । दशोपरि तथाऽष्टोच्चो, विहरत्यादिमेऽर्हति ॥ ७३॥ विच्छिन्नेऽपि हि तीर्थेऽस्मिन्, कूटमस्वर्षभाभिधं । सुरार्चितं | स्थास्तीह, पद्मनाभ जिनावधि ॥ ७४ ॥ अस्मिन्नृषभसेनाद्याः, संख्यातीता जिनेश्वराः । निर्वाणैश्च विहारैश्च, बहुशोऽपावयन् महीम् ॥ ७५ ॥ भाविनः पद्मनाभाया, अर्हन्तोऽत्र महागिरौ । निजैर्विहारनिर्वाणैः, पावयि ष्यन्ति भेदिनीम् ॥ ७६ ॥ वर्त्तमानावसर्पिण्यामस्यां नेमिजिनं विना । त्रयोविंशतिरहन्तो, निन्युरेनं कृतार्थ| ताम् ॥ ७७ ॥ पञ्चभिर्मुनिकोटीभिः, सहात्र वृषभप्रभोः । निर्वृतश्चैत्रराकायां, पुण्डरीको गणाधिपः ॥ ७८ ॥ चतुर्मासीं स्थितावत्राजितशान्ती जिनेश्वरौ । क्षेत्रमेतदनन्तानां सिद्धानां विशदात्मनाम् ॥ ७९ ॥ श्रीनेमि
Jain Education International
For Private & Personal Use Only
१०
१४
w.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106