Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ स्योदयस्येति, विंशतिः सूरिसत्तमाः । त्रयोविंशतिरुच्यन्ते, द्वितीयस्याथ नामतः ॥ १७॥ श्रीवज्रो नागहस्ती च, रेवतीमित्र इत्यपि।सिंहो नागार्जुनो भूतदिन्नः कालकसंज्ञकः॥१८॥ सत्यमित्रो हारिलश्च, जिनभद्रो गणीश्वरः। उमाखातिः पुष्पमित्रः, संभूतिः सूरिकुञ्जरः॥ १९॥ तथा माढरसंभूतो, धर्मः श्रीसंज्ञको गुरुः । ज्येष्ठाङ्गः फल्गुमित्रश्च, धर्मघोषाहयो गुरुः॥ २०॥ सूरिविनयमित्राख्यः, शीलमित्रश्च रेवतिः। स्वप्नमित्रो हरिमित्रो, द्वितीयोदयसूरयः॥२१॥स्युस्त्रयोविंशतेरेवमुदयानां युगोत्तमाः। चतुर्युक्ते सहस्रे द्वे, मीलिताः सर्वसंख्यया ॥ २२ ॥ एकावताराः सर्वेऽमी, सूरयो जगदुत्तमाः। श्रीसुधर्मा च जम्बूश्च, ख्यातौ तद्भवसिद्धिको 81 ॥ २३ ॥ अनेकातिशयोपेता, महासत्त्वा भवन्त्यमी ॥ नन्ति सार्द्धद्वियोजन्यां, दुर्भिक्षादीनुपद्रवान् ॥ २४ ॥ एकादश सहस्राश्च, लक्षाश्च षोडशाधिकाः। युगप्रधानतुल्याः स्युः, सूरयः पश्चमारके ॥ २५॥ तथोक्तं दुष्षमारकसङ्घस्तोत्रे-"जुगपूवरसरिससूरी, दूरीकयभवियमोहतमपसरं। चंदामि सोल मुत्तर इगदसलक्खे सहस्से य ॥१॥” 'सन्तु श्रीवर्द्धमानस्थे'त्यादिदीवालीकल्पे तु-"जुगप्पहाणसमाणा एगारस लक्ख सोलस सह- १० स्सा । सूरीउ हुँति अरए पंचमए जाव दुप्पसहे ॥३॥" कोटीनां पञ्चपञ्चाशल्लक्षास्तावन्त एव च । सहस्राश्च शताः पञ्च, सर्वे खाचारसूरयः ॥ २६ ॥ त्रयस्त्रिंशच लक्षाणि, सहस्राणां चतुष्टयी। चतुःशत्येकनवतिः, सूरयो मध्यमा गुणैः ॥२७॥ अस्मिन्नेवारकेऽभूवन , पूर्वाचार्या महाशयाः। श्रीजगच्चन्द्रसूर्याद्यास्तपागच्छान्व- १३ १ स्तोत्रे तु सहस्सपदस्य व्यत्ययेन योजनात् षोडशसहस्रोत्तरा एकादश लक्षा इत्यर्थः संपद्येत । Pass9290900202012900000000 Jain Educat i onal For Private & Personel Use Only Sraw.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106