Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 123
________________ [ ६५ उपशान्ताद्धाया प्रन्त उदय: ] अनिवृत्तिकरणाधिकारः उपशान्ताद्धाया अन्ते विधिनाकर्षितस्य दनिकस्य । अध्यबसानुरूपस्योदयस्त्रयाणामेकतरस्य ॥२२॥ इति पदसंस्कारः "उपसंतडा" इत्यादी. उपशान्ताद्धाया औपशमिकसम्यक्त्वाऽद्धाया अन्ते किश्चिदधिकावलिकाशेषे वर्तमानो द्वितीयस्थितिगतस्य सम्यक्त्वादिपुञ्जत्रयस्य दलिकमध्यवसायविशेषेणाऽऽकृष्याऽन्तरकरणस्याऽन्ति माऽऽवलिकायां प्रक्षिपति, तत्र प्रक्षेपविधिश्वायम्- उपशान्ताद्धासत्कचरमाऽऽवलिकायाः प्रथमसमये प्रभूतं दलिकम् , ततो द्वितीयसमये स्तोकम् , ततस्तृतीये समये स्तोकमेवं तावद्वाच्यं यावदावलिकाचरमसमयः, तानि चेत्थं निक्षिप्यमाणानि दलिकानि गोपुच्छाकारं शेत्रमास्तृणन्ति । तत उपशान्ताद्धाया आवलिकामात्रे काले शेषे "विहिणा" इत्यादि विधिनाऽवतारितस्य गोपुच्छाकारेण स्थापितस्येति यावत् , सम्यक्त्वादिपुजत्रयस्यैकतरस्याऽध्यवसायाऽनुरूपस्य पुञ्जस्योदयो भवति । अयं भावः--उपशान्ताद्धायाः किश्चिदधिकाऽऽवलिकायां शेषायामपवर्तनया गोपुच्छाकारेणाऽऽवलिकायां सम्यक्त्वादिमोहनीयत्रयस्य दलानि स्थापयति । किश्चिदधिके काले गते सति यदोपशान्ताद्धायाः पर्यन्ताऽऽवलिका प्रविशति, तदा शुभपरिणामस्य जन्तोः सम्यक्त्वमोहनीयस्योदयो भवति । मध्यमपरिणामस्थजन्तोर्मिश्रमोहनीयस्योदयः, तथाऽशुभपरिणामस्य जन्तोमिथ्यात्वस्योदयो भवति । उक्तं च पञ्चसङ्ग्रहेऽपि ॐ उवसंता अंते बिहए ओकड्डियस्स दलियस्स । __ अज्झवसाणविसेसा एक्कस्मुदओ भवे तिण्हं ॥१॥ पश्यन्तु पाठका यन्त्रकम्...५ ___यस्य जन्तोमिथ्यात्वस्योदयो भवति, स मिथ्यात्वगुणस्थानकं प्राप्नोति । तत्र च अन्तमुहूर्ताचं नानाजीवाऽपेक्षया तीर्थकृत्कर्माऽऽहारकद्विकं विना सप्तदशाऽधिकशतप्रकृतीनां क्धकः सञ्जायते, द्वाविंशत्युत्तरशतोदययोग्यप्रकृतीनां मध्याद् मिश्रसम्यक्त्वाऽऽहारकद्विकतीर्थकृत्कर्मरूपपञ्चप्रकृतीस्त्यक्त्वा सप्तदशोत्तरशतप्रकृतिषु यथायोग्यप्रकृतीनां वेदको भवति, आहारकचतुष्कजिननामं विना चत्वारिंशदुत्तरशतसत्ताको भवति । यस्य जन्तोमिश्रस्योदयो भवति, स मिश्रगुणस्थानकं प्राप्नोति । तत्र स्थितो न परमवयोग्याऽऽयुर्वध्नाति, न च तत्र म्रियते । ततश्च्युत्वा मिथ्यादृष्टिः सन् यद्वा सम्यक्त्वमासाद्य सम्यग्दृष्टिः सन् समाप्त आयुष्के म्रियते, नानाजीवाऽपेक्षया मिश्रगुणस्थानकवर्ती तिर्यत्रिकस्त्यानचित्रिकदुर्भगदुःस्वराऽनादेयाऽनन्तानुबन्धिमध्यमसंस्थानचतुष्कमध्यमसंहननचतुष्कनीचैगोत्रोद्योताऽप्रशस्तखगतिस्त्रीवेदरूपपञ्चविंशतिप्रकृतीनां बन्धाऽपगमात् मनुष्यदेवायुराहारक 卐 उपशान्ताद्धाऽन्ते द्वितीयायाप्रपकषितस्य दलिकस्य। प्रध्यवसायविशेषादेकस्योदयो भवेत् त्रयाणाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332