Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 296
________________ २३८ ] उपशमनाकरणम् [ गाथा ६५ पुरुषवेदक्रोधोदयप्रतिपन्नस्याऽपगतवेदस्य यावान कालः क्रोधोपशमनायां गच्छति, तावता कालेन मानोदयारूढः क्रोधत्रयमुपशमयति, संज्वलनक्रोधस्य केवलं समयोनावलिकाद्विकनूतनबद्धदलिकमनुपशान्तं तिष्ठति, तदानीमेव संज्वलनक्रोधस्य बन्धो व्यवच्छिद्यते । ततः प्रभूति मानविकमुपशमयन् संज्वलनक्रोधस्य समयोनावलिकाद्विकेन बद्धदलिकं तावता कालेन पुरुषवेदोक्तप्रकारेणोपशमयति, शेषं पूर्ववत् , यथा-मानमुपशमयतो जन्तोः संज्वलनमानस्य प्रथमस्थितेः समयोनावलिकात्रिके शेषे संज्वलनमानस्य पतद्ग्रहताऽपगच्छति, आवलिकाद्विके शेष आगालो व्यवच्छिन्न आवलिकायां च शेषायां बन्धोदयोदीरणा व्यवच्छिद्यन्ते, तदानीं च मानत्रिकं सर्वथोपशान्तं भवति, नवरि संज्वलनमानस्य समयोनावलिकाद्वयबद्धनूतनदलं तथाऽऽवलिकामात्रप्रथमस्थितिगतं दलमनुपशान्तं तिष्ठतीत्यादि पूर्व वदवसे यम् । प्रतिपाते प्रक्रियाविशेषः मानोदयेनाऽऽरूढो यदि प्रतिपतेत्तहि स सूक्ष्मपरायप्रथमसमयादारभ्य मायावेदाद्धाचरमसमयं यावत्पुरुषवेदक्रोधोदयेनारूढवत्प्रक्रियां करोति,न कश्चिद्विशेषः । ॥ ततो मानोदयारूढः प्रतिपातुको मानवेदकाऽद्धायाः प्रथमसमयादारभ्य नवानामपि कषायाणां गलिताऽवशेषमात्री गुणश्रेणिं विरचपति, तदायामश्च शेषकर्मगुणश्रेण्यायामेन एकादशो भवति । इह मानवेदकाऽद्धा क्रोधारूढप्रतिपातुकक्रोधमानोदयसमृहितकालप्रमाणः। पुरुषवेद क्रोधोदयारूढस्य मानवेदकाऽद्धायां व्यतिक्रान्तायां पुरुषवेदमानारूढस्य प्रतिपततः क्रोधत्रयमनुपशान्तं भवति, तदानीं द्वितीयस्थितितो दलिकं गृहीत्वोदयावलिकाया उपरितननिषेकाक्रोधत्रिकदलानि शेषकर्मगुणश्रेण्यायामेन सदृशे गुणश्रेण्यायामे रचयति, स चाऽऽयामो गलिताऽवशेषमात्रः, इत्थं तदानीं द्वादशकषायाणां गलिताऽवशेषगुणश्रेणिर्भवति तथा चारित्रमोहनीयस्य द्वादशप्रकृत्यात्मकं सक्रमस्थानं क्षायिकसम्यग्दृष्टिना प्राप्यते । शेषं पुरुषवेशक्रोधोदयारूढप्रतिपातुकवदवगन्तव्यम् । अथ मायावेदोदयारूढस्याऽऽरोहणप्रक्रियायां विशेषो भण्यते । अथ आरोहणप्रक्रियाया विशेषः पुरुषवेदक्रोधोदयारूढस्य, संज्वलनक्रोधमानमायानां त्रयाणां समुदिता यावन्मात्री प्रथमस्थितिरासीत् , तावन्मात्री पुरुषवेदमायारूढम्य संज्वलनमायायाः प्रथमस्थितिर्भवति । शेषाणामनुदयवतीनां प्रकृतीनामावलिकामात्री प्रथमस्थितिः क्रियते । पुरुषवेदसंज्वलनक्रोधोदय द्वयारूढवतावद्वक्तव्यम् , यावत्पुरुषवेदस्योदयचरमसमयः, पुरुषवेदोदयस्य चरमसमये हास्यपटकं पुरुषवेदं काटिप्पणीः-लब्धिसारे यत्कषायेन श्रेणि प्रतिपन्नस्तं कषायं प्राप्याऽन्तरं पूरयतीत्युक्तम् । यस्यकषाय स्योदयेन श्रणिमारुह्य पतितस्तस्मिन्नप्रकृष्टेऽन्तरमापूरयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332