Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 304
________________ २४: ) उपशमनाकरणम् [ गाथा ६५ स्थितेःप्रथमस मयादारभ्य तच्चरमसमयपर्यन्तं मायात्रिकमुपशमयन्नपि न सथोपशमयति, किन्तु समयोनावलिकाद्वयेन बद्धनूतनदलमनुपशान्तत्वेन सत्तायां स्थापयति, ततोऽनन्तरं तावता काले नोपशमयतीति कृत्वा मायाप्रथमस्थित्याद्यसमयानच्चरमसमयपर्यन्तं यो मायावेदककालः, ततः समयोनावलिकाद्वि केनाऽधिक उपशमनकालः, तथा मायावेदकालतो मायाप्रथमस्थितिराव. लिकयाऽधि केन्युक्तत्वाद् मायाप्रथमस्थितितो मायोपशमनकालः समयोनावलिकयाऽधिकः । (२५) ततः प्रतिपद्यमानस्य मानवेदकाऽद्धा विशेषाधिका । (२६) ततः प्रतिपद्यमानस्य मानकषायम्य प्रथमस्थितिर्विशेषाधिका । इदं पदं पूर्वत आवलिकयाऽधिकं भवति, प्रथमस्थितेरावलिका यां शेष यां मानोदयस्य व्यवच्छेदात् । (२७) ततो मानोपशमन कालो विशेषाऽधिकः, समयोनावलिकामात्रेणाऽधिकत्वात् । तत्र कारणं तु चतुर्विंशतितमपदवज्ज्ञातव्यम् । नवरमत्र मायास्थाने मान इति वक्तव्यम् । (२८) ततः क्रोधोपशमनाऽद्धा विशेषाधिका । यद्यपि क्रोधवेदकाऽद्धायां पूर्णायां क्रोधस्य प्रथमस्थितिरावलिकामाव्यवतिष्ठते, तथा ततः प्रभृति समयोनावलिकाद्वयेन बद्धनूतनदलमुपशमयतस्तावता कालेनोपशमयति. तथाऽपि मानादिवत्क्रोधवेदककालतः क्रोधप्रथमस्थितिर्विशेषाऽधिका. ततोऽपि क्रोधोपशमन कालो विशेषाधिक इति न वक्तव्यम् , यतो यथाप्रवृत्तकरणप्रथमसमयात्संज्वलनक्रोधं तावद्वेदयति, यावदनिवृत्ति करणे यावत्संज्वलनक्रोधोदयम्य चरमसमयः । तेन यथाप्रवृत्त करणप्रथमसम याद निवृनिकरणे क्रोधवेदनस्य चरमसमयपर्यन्तं क्रोधवेदवाऽद्धोच्यते, तथाऽनिवृत्तिकरणेऽन्तरकरण क्रियायां समाप्तायामनन्तरसमयादारभ्य क्रोधवेदन चरमसमयत आवलिकयाऽधिका प्रथमस्थितिभवति, क्रोधोपशमना तु प्रथमस्थितेनपुसमवेदस्त्रीवेदहास्य षटकानामुपशमनाकाले व्यतीते क्रोधस्योपशमना प्रारभ्यते, सा च तावत् प्रवर्तते यावत्क्रोधचरमोदयसमयात्समयोनाऽऽवलिकाद्विकप्रमाणः कालो व्यतिक्रान्तो भवति, ततः क्रोधवेदनकालः सर्वप्रभूतः, ततो हीना क्रोधस्य प्रथमस्थितिः, ततोऽपि न्यूनः क्रोधोपश. मनकाल इत्येव भवति, न तु मानादिक्रमेणाऽल्पबहुत्वं वक्तव्यम् । स्थापना चेत्थम् यथाप्रवृत्तकरणम | अपूर्वकरणम् | प्र- निवृ-त्ति | क | | र । णम् य .................. 'क्रोधवेदनकालः क.............-... बप्रथमस्थिति.ब'... झ समयोनावलिकद्वयबद्धानुपशान्तं तावत्कालेनोपशान्तम् ब'.................. . बउच्छिष्टालिका स्ति बुकसंगमेण संक्रमति मानकषाये ज ................... झक्रोधोपशमनकाल: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332