Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 308
________________ २५० ] उपशमनाकरणम् [ गाथा ६५ (४६) तत आरोहकस्य क्रोधवेदकाऽद्धा संख्येयगुणा । श्रेणि प्रतिपद्यमानो यथाप्रवृत्तकरणप्रथमसमयात्प्रभृत्यनिवृत्तिकरणसंख्येयबहुभागं यावत्क्रोधमनुभवति, सा क्रोधवेदकाऽद्धोच्यते । गुणश्रेण्यायामस्त्वपूर्वकरणाऽनिवृत्तिकरणसूक्ष्मसंपरायाद्धात्र यात्किश्चिदधिककालप्रमाणः यथाप्रवृत्तकरणकालस्य संख्यातगुणत्वेनाऽऽरोहकक्रोधवेदकाऽद्धा संख्यातगुणा भवति । __स्थापना वित्थाम् अ. य"...... छ+Bhb ब""--..."इ गुरणश्रेरिणनिक्षेपः य .. "प क्रोधवेदकाऽद्धा "-"अ यथाप्रवृत्तकरणाऽद्धा ................ब अपूर्वकरणाऽद्धा ब ........ -..."क अनिवत्तिकरणाऽद्धा क....... -... ड सूक्ष्मसंपरायाऽद्धा मानमायालोभवेदकाद्धा न चाऽपूर्वकरणप्रथमसमयात्प्रवर्तमानपदार्थानामेवाऽल्पबहुत्वं प्रावप्रतिज्ञातम्, तर्हि क्रोधवेदकाऽद्धायां यथाप्रवृत्तकरणकालस्य प्रवेशात्प्रतिज्ञाहानिरिति वाच्यम् , अपूर्वकरणादिषु प्रवर्तमानपदार्थे कथ्यमाने तत्सम्बन्धिपदार्थानां कथने न कश्चिद् वाधः, तेनाऽग्रेप्यल्पबहुत्वाऽधिकारे प्रसंगवशाद् यथाप्रवृत्त करणगुणश्रेणिनिक्षेपोऽभिधास्यते । (४७) ततो यथाप्रवृत्तकरणसंयतस्य गुणश्रेणिनिक्षेपः संख्यातगुणः। अत्र प्रतिपातुकस्य यथाप्रवृत्तसंयतगुणश्रेणि निक्षेपो ज्ञातव्यः । (४८) ततो दर्शनमोहोपशान्ताऽद्धा संख्यातगुणा । दर्शनत्रिकमुपशमय्य षष्ठगुणस्थानक सप्तमगुणस्थानकं च सहस्रशः स्पृष्ट्वा चारित्रमोहनीयमुपशमय्योपशान्तमोहगुणस्थानक परिस्पृश्य श्रेणितः प्रतिपतञ्जन्तुः सूक्ष्मसंपरायाऽनिवृत्तिकरणाऽपूर्वकरणयथाप्रवृक्तकरणाऽद्धाचतुष्कमनुभूय यावत्प्रमत्तादिगुणस्थानके क्षायोपशमिकसम्यक्त्वं न प्राप्नोति, ततोऽग्सिर्वोऽपि कालो दर्शनत्रिको शान्ताद्धा प्रोच्यते । सा च पूर्वतः संख्यातगुणा । (४९) ततश्चारित्रमोहनीयस्याऽन्तराऽऽयामः संख्येयगुणः। न च चारित्रमोहनीयोपशमना. त्पूर्व दर्शनत्रिकमुपशमयति तथा मोहनीयोपशमनाऽपगमनात्पूर्व दर्शनत्रिकोपशमना प्रणश्येत् , तर्हि चारित्रमोहनीयस्याऽन्तरायामो दर्शनत्रिकोपशान्ताऽद्धात : संख्यातगुणः कथं भवितुमर्हति ?हीनो वक्तव्य इति वाच्यम् , चारित्रमोहनीयोपशान्ताऽद्धा दर्शनत्रिकोपशान्ताऽद्धातो हीना युक्ता, चतुस्त्रिशत्तमे पदे तस्या विहितत्वात् , अत्र तु मोहनीयाऽन्तरकरणाऽऽयामस्य मोहोपशान्ताऽद्धातो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332