________________
२५० ] उपशमनाकरणम्
[ गाथा ६५ (४६) तत आरोहकस्य क्रोधवेदकाऽद्धा संख्येयगुणा । श्रेणि प्रतिपद्यमानो यथाप्रवृत्तकरणप्रथमसमयात्प्रभृत्यनिवृत्तिकरणसंख्येयबहुभागं यावत्क्रोधमनुभवति, सा क्रोधवेदकाऽद्धोच्यते । गुणश्रेण्यायामस्त्वपूर्वकरणाऽनिवृत्तिकरणसूक्ष्मसंपरायाद्धात्र यात्किश्चिदधिककालप्रमाणः यथाप्रवृत्तकरणकालस्य संख्यातगुणत्वेनाऽऽरोहकक्रोधवेदकाऽद्धा संख्यातगुणा भवति ।
__स्थापना वित्थाम्
अ.
य"......
छ+Bhb
ब""--..."इ गुरणश्रेरिणनिक्षेपः य .. "प क्रोधवेदकाऽद्धा
"-"अ यथाप्रवृत्तकरणाऽद्धा ................ब अपूर्वकरणाऽद्धा ब ........ -..."क अनिवत्तिकरणाऽद्धा क....... -... ड सूक्ष्मसंपरायाऽद्धा
मानमायालोभवेदकाद्धा न चाऽपूर्वकरणप्रथमसमयात्प्रवर्तमानपदार्थानामेवाऽल्पबहुत्वं प्रावप्रतिज्ञातम्, तर्हि क्रोधवेदकाऽद्धायां यथाप्रवृत्तकरणकालस्य प्रवेशात्प्रतिज्ञाहानिरिति वाच्यम् , अपूर्वकरणादिषु प्रवर्तमानपदार्थे कथ्यमाने तत्सम्बन्धिपदार्थानां कथने न कश्चिद् वाधः, तेनाऽग्रेप्यल्पबहुत्वाऽधिकारे प्रसंगवशाद् यथाप्रवृत्त करणगुणश्रेणिनिक्षेपोऽभिधास्यते ।
(४७) ततो यथाप्रवृत्तकरणसंयतस्य गुणश्रेणिनिक्षेपः संख्यातगुणः। अत्र प्रतिपातुकस्य यथाप्रवृत्तसंयतगुणश्रेणि निक्षेपो ज्ञातव्यः ।
(४८) ततो दर्शनमोहोपशान्ताऽद्धा संख्यातगुणा । दर्शनत्रिकमुपशमय्य षष्ठगुणस्थानक सप्तमगुणस्थानकं च सहस्रशः स्पृष्ट्वा चारित्रमोहनीयमुपशमय्योपशान्तमोहगुणस्थानक परिस्पृश्य श्रेणितः प्रतिपतञ्जन्तुः सूक्ष्मसंपरायाऽनिवृत्तिकरणाऽपूर्वकरणयथाप्रवृक्तकरणाऽद्धाचतुष्कमनुभूय यावत्प्रमत्तादिगुणस्थानके क्षायोपशमिकसम्यक्त्वं न प्राप्नोति, ततोऽग्सिर्वोऽपि कालो दर्शनत्रिको शान्ताद्धा प्रोच्यते । सा च पूर्वतः संख्यातगुणा ।
(४९) ततश्चारित्रमोहनीयस्याऽन्तराऽऽयामः संख्येयगुणः। न च चारित्रमोहनीयोपशमना. त्पूर्व दर्शनत्रिकमुपशमयति तथा मोहनीयोपशमनाऽपगमनात्पूर्व दर्शनत्रिकोपशमना प्रणश्येत् , तर्हि चारित्रमोहनीयस्याऽन्तरायामो दर्शनत्रिकोपशान्ताऽद्धात : संख्यातगुणः कथं भवितुमर्हति ?हीनो वक्तव्य इति वाच्यम् , चारित्रमोहनीयोपशान्ताऽद्धा दर्शनत्रिकोपशान्ताऽद्धातो हीना युक्ता, चतुस्त्रिशत्तमे पदे तस्या विहितत्वात् , अत्र तु मोहनीयाऽन्तरकरणाऽऽयामस्य मोहोपशान्ताऽद्धातो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org