________________
अल्पबहुत्वम ] चारित्रमोहोपशमनाधिकार:
[ २४९ (४०) ततोऽवतारकस्याऽनिवृत्तिकरणाऽद्धा संख्येयगुणा । आरोहकस्याऽनिवृत्तिकरणमन्कसंख्येयबहुभागेषु गतेष्वसंज्ञिबन्धतुन्यस्थितिबन्धो भवति, ततः परमपि स्थितिबन्धसहस्रषु गतेष्वसंख्येय समयप्रबद्धोदीरणा प्रारभ्यत इति कृत्वाऽऽआरोहकस्याऽसंख्येयसमयप्रबद्धोदीरणाप्रवर्तन कालोऽनिवृत्तिकरणसंख्येयतमभागप्रमाणो भवति । न च सूक्ष्मसंपरायगुणस्थानकेऽप्य. संख्येयसमयप्रबद्धोदीरणायाः प्रवर्तनादनिवृत्तिकरणसंख्येयतमभागतोऽधिको भवतीति वाच्यम् , मूक्ष्मसंपरायकालस्याऽन्पत्वेनाऽनिवृत्तिकरणसंख्येयतमभाग एव समावेशात् । इत्थमरोहकाऽनिवृ. त्तिकरणकालोऽसंख्येयसमयप्रबद्धोदीरणाकालतः संख्येयगुणः सिध्यति । ततोऽवतारकाऽनिवृत्तिकरण कालस्य किश्चिन्यूनत्वं वक्तव्यम्. आरोहककालतोऽवरोहककालस्य न्यूनत्वनियमात् । इत्थं पूर्वतोऽवरोहकाऽनिवृत्तिकरणकालः संख्यातगुणः सिध्यति ।
(४१) तत आरोहकस्याऽनिवृत्तिकरणाऽद्धा विशेषाऽधिका । आरोहकतोऽवरोहककालस्य न्यूनत्वात्पूर्वत आरोहकाऽनिवृत्ति करणाऽद्धा विशेषाधिका निश्चेतव्या ।
___(४२) ततः प्रतिपातुकस्याऽपूर्व करणाऽद्धा संख्यातगुणा । अस्याः पूर्वतो बहत्तराऽन्तमुहूतेप्रमाणत्वात् संख्यातगुणत्वं न्याय्यम् ।
(४३) तत आरोहकस्याऽपूर्वकरणाऽद्धा विशेषाधिका । तत्र हेतुस्त्वेकचत्वारिंशस्पदवदवगन्तव्यः।
___ (४४) ततः प्रतिपतत उत्कृष्टगुणश्रेणिनिक्षेपो विशेषाऽधिकः । प्रतिपातुकस्य सूक्ष्मसंपरायप्रथमसमये शेषकर्मणां गुणश्रेणिरपूर्वकरणाऽनिवृत्तिकरण सूक्ष्मसंपरायाऽद्धात्रयात्किश्चिदधिककालप्रमाणगलिताऽवशेषाऽऽयामे भवति ।यद्यप्यवतारकाऽपूर्वकरणकाल आरोहकतो न्यूनो भवति, तथाऽपि गुणश्रेणिनिक्षेपोऽनिवृत्तिकरण सूक्ष्मसंपरायाऽद्धाया अधिककालस्याऽपि समावेशात्पूर्वतो विशेषाधिको युक्तिसहः । अयमुत्कृष्टगुणश्रेणिनिक्षेपो मोहनीयवर्जशेषककर्मणामेव सूक्ष्मसंपरायप्रथमममये वक्तव्यः किं कारणमिति चेद् । उच्यते सूक्ष्मसंपरायप्रथमसमये मोहनीयस्य गुणश्रेणिनिक्षेपस्तत्कालता किश्चिदधिकाऽऽयामप्रमाणो भवति, न त्वपूर्वकरणादिकालत्रयादधिककालप्रमाणश्शेषकर्मवत् । तथा शेषकर्मण्यपि यदि सूक्ष्मसंपरायस्याऽऽद्यसामयिकगुणश्रोणिनिक्षेपो न ग्राह्यते, तर्हि निक्षेपस्य गलिताऽवशेषत्वादन्यसमयेषत्कृष्टनिक्षेपो न प्राप्येत । अत्रेदमपि विशेषतो बोध्यम्, यद् मोहनीयस्य शेषकर्मसदृशोत्कृष्टगुणश्रेणिनिक्षेपो न भवति, तथा प्यारोहकाऽपूर्वकरणतः प्रपततो मोहनीस्योत्कृष्टगुणश्रेणिनिक्षेपोऽपि विशेषाऽधिको भवति ।
(४५) तत आरोहकाऽपूर्वकरणप्रथमसमये गुणश्रेणिनिक्षेपो विशेषाऽधिकः । प्रतिपातुकत आरोह कस्याऽपूर्वकरणाऽनिवृत्तिकरणसूक्ष्मसंपरायकालानामाधिक्यादवरोहकोत्कृष्टगुणश्रेणिनि । क्षेपत आरोहकोत्कृष्टगुणश्रेणिनिक्षेपो विशेषाऽधिको निश्च तव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org