SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् २४८ ] [ गाथा ६५ काद्वयवर्जक्रोधोपशमना तथा पूर्वपूर्वप्रकृत्युपशमनकालप्रमाणत उत्तरोत्तरप्रकृत्युपशमनकालस्य हीनत्वेन पुरुषवेदप्रथमस्थितितः किश्चिन्न्यूनत्रिभागेनाऽधिका क्रोधप्रथमस्थितिर्भवति । स्थापना-- स अ .................-- ब पुरुषवेदस्य प्रथस्थितिः अ.................. स२ संज्वलनक्रोधस्य प्रथमस्थितिः प्र ................ १ नपुंसवेदोपशमनाद्धा १-....--.-.... २ स्त्रीवेदोपशमनाद्धा २... ........ ...... व समयोनावलिकाद्वयबद्धनूतनदलवर्जपुरुषवेदेन सह हास्यषटकोपशमनाऽद्धा ब - ..........-... स'पुरुषवेदस्य समयोनावलिकाद्वयबद्धनूतनदलेन सह समयोनावलिकाद्विक. बद्धनूतन दलबर्जक्रोधोपशमनाद्धा स'क्रोधोदयस्य चरमसमय: (३७) ततो मोहनीयस्योपशमनाद्धा विशेषाऽधिका । मोहनीयोपशमनकालः पूर्वतो मानमायालोमरूपत्रयप्रकृतीनामुपशमनकालेनाऽधिकः । कथमेतदवसीयत इति चेद् ? उच्यतेनपुसकोपशमनाप्रथमसमयादारभ्य समयोनावलिकाद्वयबद्धनूतनदलवर्जक्रोधोपशमनाचरमसमयपयन्तं क्रोधस्य प्रथमस्थितिर्भवति, मोहनीयस्योपशमन कालस्तु नपुसकवेदोपशमनकालप्रथमसमयात्सूक्ष्मलोभोपशमनाकालचरमसमयपर्यन्तं दृश्यत इति कृत्वा क्रोधप्रथमस्थितितो मोहनीयोपशमनकालो मानमायालोभानामुपशमनकालेनाऽधिको वक्तव्यः । (३८) ततः प्रतिपातुकस्याऽसंख्येयसमयप्रबद्धोदीरणाकालः संख्यातगुणः । श्रेणि समारोहतो मोहनीयस्य स्थितिबन्धस्स्तोका,ततोऽसंख्येय गुणो ज्ञानावरणदर्शनावरणाऽन्तरायाणां स्वस्थाने तु परस्परं तुल्यः, ततोऽपि नामगोत्रयोरसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः । ततोऽपि वेदनीयस्याऽसंख्येयगुणः, इति स्थितिबन्धस्य क्रमभवनाऽन्तः सहस्रषु स्थितिबन्धेषु गतेषु सत्सु देशघातिरसभवनात्संख्यातसहस्रस्थितिबन्धतोर्वागसंख्येयसमयप्रबद्धोदीरणा प्रारभ्यते, सा च तावत्प्रवर्तते यावत्प्रतिपातुकस्य सर्वघातिरसभवनाऽनन्तरं संख्यातसहस्रस्थितिबन्धा गता भवन्ति । तत्र प्रतिपातुकसूक्ष्मसंपरायप्रथमयात्प्रभति सर्वघातिरसभवनान्तरं संख्यातसहस्रतमस्थितिबन्धाऽद्धाचरमसमयपर्यन्तं विद्यमानो यः कालो भवति, स प्रतिपततोऽसंख्येयसमय. प्रबद्धोदीरणायाः काल उच्यते, स च पूर्वतः संख्यातगुणः भवतीत्युपद्यते । (३६) तत आरोहकस्याऽसंख्येयसमयप्रबद्धोदीरणाकालो विशेषाधिकः । आरोहककालतोऽवतारककालस्य न्यूनत्वसंभवात्पूर्वतोऽयं विशेषाऽधिको भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy