Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 318
________________ २६० ] कर्मारेईतये व्यधुः किमुत ये कर्मप्रकृत्यायुधं, दद्युस्ते शिवशर्मसूरिगुरवः कम प्रणाशे बलम् ॥२॥ (शार्दूलविक्रीडितम् ) यस्योपास्तिमवाप्य सच्चरणयोर्लब्ध्वा यदीयां कृपा, बृत्ति प्रेमगुणा मयोपशमनासंज्ञेऽधिकारे खलु । श्रीकर्मप्रकृतौ दृब्धा सुगुरुणा सा येन संशोधिता, जीयात् कर्मकृतान्तवित् स विजयश्रीप्रेमसूरीश्वरः ॥३॥ (शार्दूलविक्रीडितम्) यः स्याद्वादनयप्रमाणविदुरो वैराग्यवारानिधिः, मोहग्रीष्मसुतप्तभव्यभुवने यद्गीः पयोदायते । यो नित्यं तपते तपः कृशतनुः संसारसंतापहम् , श्रीगच्छाधिपतिः स पातु भुवन-श्रीभानुसूरीश्वरः ॥४॥ (शार्दूलविक्रीडितम्) संशोधिताऽपि वृत्तिर्विजयोदयसूरिभिः कृपां कृत्वा । सिद्धान्तदिवाकृभिः पदार्थसंग्राहकः पूज्यैः ॥५।। (पथ्यार्या) आगमकर्मप्रकृतिग्रन्थेष्वपि बुद्धिशालिभिर्विजयैः । जयघोष-धर्मजिद्-हेमचन्द्रसूरीश्वरैरन्यैः ॥६॥ (युग्मम् ) मेवाडदेशमुद्धरति गुरुर्मम यः महोदरश्च । भवजलधितारणतरीतुल्यो स जितेन्द्र सूरीश्वरः ॥७॥ (प्रार्या) प्रेमगुणाटीकारचनेन हि गुणरत्नसूरिणा कुशलम् । यदवापि मया तेनाखिलविश्वं द्रागश्नुवीन शिवम् ॥८॥ (पथ्यार्या) शिशुचेष्टाऽप्येपा मम न भवति हास्यास्पदं कृतिनाम् ।। यस्माद्धि यथाशक्ति शुमे यतनीयमिति ते प्राहुः ॥९।। (उपगीति) छामस्थात् मतिमान्द्यात् वाऽपि यत् किश्चद् विरुद्धमागमतः । स्यादुक्तं तच्छोध्यं बहुश्रुतैर्मयि विधाय कृपाम् ॥१०॥ (पथ्यार्या) संसारोदधिनौ तुल्योऽस्तु संभवजिनः श्रिये । पूरणग्रामवास्तव्याः भक्तितः प्रणमन्ति तम् ॥११॥ (अनु टुप् ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332