Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 319
________________ [ २६१ श्रीमदाद्-वेदान्त-न्याय-भीमांसक-वैशेषिक-सौगतादिविविधदर्शनानामुद्भवस्थलो भारतवर्षः । तत्र च जन्ममरणरागद्वेष-विषयकषायदुर्ध्यानादिसंतप्तभवभ्रमणशीलकलिकालजन्तूनामात्यन्तिकदुःखोच्छेदनममनन्तज्ञानदर्शनाऽक्षयसुखवीतरागभावादिसहजस्वाभाविकात्मगुणानामनन्यहेतुजैनेन्द्रदर्शनं सर्वेषामग्रे विलसति । मोक्षाभिलाषिणोऽनेकभव्यात्मानस्तमा. श्रित्यऽपारमबोदधिं पारयित्वा सर्वोच्चनिर्वाण पदमऽप्रापन , प्राप्नुवन्ति , प्राप्स्यन्ति च। . अध्यात्मोद्भवस्थलभारतवर्षे श्रोशत्रुञ्जयसम्मेतशिखर-रैवतशिखर-चम्पापुरि-पावापुर्याद्यनेकतारकतीर्थानि परिशोमन्ते । तान्याराध्य मुमुक्षव ऐहिकामुष्मिकसर्वसंतापानपहरन्ति । गौरवशालिन्यां तादृश्यां भारतभूमौ गुजर-मरुधर-महाराष्ट्र-कनोटक. हिमाचलप्रदेश-मध्यप्रदेश-उत्तरप्रदेशाद्यनेकाः प्रान्ता विराजन्ते । तत्र च विभिन्नभाषावेशभूषा-जीवनपद्धति-धर्माद्यनेकसंस्कृतयः प्रचलितास्सन्ति । ___ भारतवर्षे धर्मकर्मशूराणां मातृभूमिर्मरुधरो राजस्थानेत्यपरनामा प्रान्तश्चकास्ते । स चार्वादाचल-राणकपुर-कनकाचल-जैसलमेर-जीराउला-ब्राह्मणवाडा-नन्दिवर्धनपुरप्रभृतितीर्थस्थानादिभिः समलङ्कृतोऽस्ति । तत्र चाखिल विश्व प्रतिष्ठामहोत्सवे यस्याभिधानमवश्यमेव गृह्यते, तस्य सुविख्यातजीराउलातीर्थ पायें स्वर्णगिरिदुर्गापलक्षित-जालोरजिलायामपूर्णोऽपि पूर्णतां विख्यापयन्निव पुरणग्रामः सुशोभते । अधुना पुरणग्रामे क्षत्रिएजैनस्वर्णकारब्राह्मण-भील्ल-शूद्रादिजातयः प्रतिव. सन्ति । सर्वेऽपि परस्परं सहकारेण जीवनं यापयन्ति । एकस्यापत्ता इतरे धनधान्यादिसाहाय्यं कुर्वन्ति । तत्र च धनाढ्या जेनाः सन्ति । ते च दानशौण्डाः, दुष्कालादा अर्थान्नपानादिभिर्जनान् पशूश्चोपकुवन्ति । श्राद्धानां जनसमवाये लोकप्रियता वर्तते । पुराऽत्र श्रावकानां श्रद्धापुञ्ज इव षोडशमजिनपतेरुत्तुगशिखरबद्धजिनमंदिरं मासीत् । पूज्यपादाचार्यदेवादीनां सत्प्रेरणया धर्मजिनपतेमूर्तिरुत्था पिता । नवाधिकविंशतिशततमवैकमान्दे (२००६) मृगशीर्षमासे शुक्लपक्षे दशम्यां तिथौ शुभमुहूर्ते परमपूज्यप्रशांतमूर्तिशान्तिसूरीश्वराणां शुभनिभायां प्रशमरसनिमग्नस्तृतीयजिनपतेः श्रीसंभवनाथप्रभोप्रतिष्ठा हर्षोल्ल सेन श्रीसङ्घन कारिता। ग्रामस्योच्चस्तरभागे स्थितो जिनालयमुत्तमाङ्गस्यावतंसक इव परिशोभते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332