Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text ________________
२५४ ]
उपशमनाकरणम
[ गाथा ६५
वर्षमात्रःस्थितिबन्धः, सोऽत्राऽभ्युपगन्तव्यः, प्रतिपातुकास्याऽघातित्रयस्य चरमसंख्येयवापिकस्थितिबन्ध तोऽघातित्रयस्य संख्येयवार्षिकस्थितिबन्धस्याऽर्वाप्राप्तत्वेऽपि संख्यातगुणत्वमिदानीमपि= प्रतिपातुकस्य घातित्रयस्य चरमसंख्येयवार्षिकस्थितिबन्धाऽवसरेऽपीत्यर्थः, मोहनीयस्य सर्वाऽल्पस्थितिबन्धः, ततः संख्यातगुणो घातित्रयस्य, ततोऽपि संख्येयगुणोऽघातित्रयस्येत्यल्पबहुत्वसवात् ।
(७८) तत उपशमकस्य मोहनीयस्याऽसंख्येयवार्षिकः स्थितिवन्धोऽसंख्येयगुणः । स चाऽन्तरकरणक्रियाकालभावी ग्राह्यः । ततः परं मोहनीयस्य संख्यातवार्षिकः स्थितिबन्धो भवति ।
(७६) ततः प्रतिपततो मोहनीयस्य प्रथमोऽमंख्येयवार्षिकः स्थितिबन्धोऽसंख्येयगुणः । संक्लेशवर्धनात्प्रतिपातुकस्य स्थितिबन्ध आरोहकतोऽसंख्येयगुणः संभवति ।
(८०) तत उपशमकस्य घातित्रयस्य चरमोऽसंख्येयवार्षिकः स्थितिबन्धोऽसंख्येयगुणः । आरोहकस्य स्त्रीवेदोपशमनायाः संख्येयतमे भागे गते धातित्रयस्याऽसंख्येयवार्षिकः स्थितिबन्धो भवति, मोहनीयस्याप्यन्तरकरणक्रियाकालभाविमोहनीयसत्कचरमस्थितिबन्धतोऽसंख्येयगुणो भवति, एवमन्यत्रापि यथास्थानं भावनीयम् ।
___ (८१) ततोऽवरोहकस्य घातित्रयस्य प्रथमोऽसंख्येयवार्षिकः स्थितिबन्धोऽसंख्येयगुणः । पञ्चसप्ततितमपदे यो धातित्रयस्य चरमस्संख्येयवार्षिक: स्थितिबन्धो विहितः, ततोऽनन्तरं प्रवर्तमानः स्थितिबन्धोऽत्र ज्ञातव्यः, हेतुम्तु त्रिसप्ततितमपद उक्तः ।
(८२) तत उपशम कम्य नामगोत्र वेदनीयानां चरमोऽसंख्येयवार्षिक: स्थितिबन्धोऽ. संख्येयगुणः । प्रतिपद्यमानस्य हास्यपटक पुरुषवेद पशमनाकालस्य संख्येयतमे भागे गतेऽघाति. त्रयस्य चरमोऽसंख्येयवार्षिकः स्थितिबन्धोऽवाप्यते, ( भावना त्वष्टसप्ततितमपदवत्कर्तव्या ।)?
(८३) ततः प्रतिपातु कस्य नामगोत्र वेदनीयानां प्रथमोऽसंख्येयवार्षिकः स्थितिबन्धोऽसं. ख्येयगुणः । हेतुस्तु त्रिसप्ततितमपदवनिश्चेतव्यः । सप्तसप्ततितमपदेऽघातित्रयस्य चरमसंख्येयवार्षिकः स्थितिबन्धः, ततोऽनन्ताभावी स्थितिबन्धोऽत्र ज्ञातव्यः, अत्राऽयं विशेषतोऽवगन्तव्यः यस्मिन्काल आरोहकस्य यः स्थितिबन्धो भवति, ततोऽन्तमुहर्तेन प्रागवरोहकस्य तत्स्थितिवन्धः प्राप्यते ।
(८४) तत उपशमकस्य नामगोत्रयोः पल्योपमसंख्यातमागमात्रः प्रथमः स्थितिवन्धीऽसंख्येय गुणः । नामगोत्रयोः एल्योपममात्रस्थितिबन्ध भवनाद्यः पल्योपमसंख्येयभागमात्रो भवति, सोऽत्र बोध्यः।
(८५) तत आरोहकस्य धानित्रयवेदनीयानामाद्यपल्योपमसंख्येयभागप्रमाणः स्थितिबन्धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332