Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 310
________________ २५२ 1 उपशमनाकरणम् [ गाथा ६५ (५८) तत आरोहकस्य नामगोत्रयोर्जघन्यस्थितिबन्धः संख्यातगुणः । उपशमकस्य नामगोत्रयोर्जघन्यस्थितिबन्धः सूक्ष्मसंपरायचरमसमये षोडशमुहूर्ताः, तेषां चाऽन्तमुहूर्ततः संख्यातगुणत्वेन पूर्वत आरोहकस्य नामगोत्रयोर्जधन्यस्थितिबन्धसंख्यातगुणः । (५९) ततो वेदनीयस्य जघन्यस्थितिबन्धो विशेषाधिकः। आरोहकसूक्ष्मसंपरायचरमसमये भाविनोर्नामगोत्रयोर्जघन्यस्थितिबन्धस्य षोडशमुहूर्तप्रमाणत्वात्तदानीं च वेदनीयस्य चतुर्विंशतिमुहूर्तप्रमाणत्वात्तस्य पूर्वतोऽष्टमुहू राधिक्यं ज्ञातव्यम् । (६०) ततः प्रतिपातुकस्य नामगोत्रयोर्जघन्यस्थितिबन्धो विशेषाधिकः । उपशमश्रेणिं प्रतिपद्यमाने नामगोत्रयोः सूक्ष्मसंपरायचरमसमय भाविषोडशमहूर्तप्रमाणजघन्यस्थितिबन्धतोऽवरोहकस्य नामगोत्रयोः सूक्ष्मसंपरायप्रथमसमये भाविजघन्यस्थितिबन्धस्य द्विगुणत्वेन द्वात्रिंशन्मुहूर्तप्रमाणत्वेन पूर्वपदतोऽष्टमुहृतैराधिक्यं भवति । (६१) ततः प्रतिपातुकस्य वेदनीयस्य जघन्यस्थितिबन्धो विशेषाऽधिकः । आरोहकस्य सूक्ष्मसंपरायचरमसमये वेदनीयम्य जघन्यस्थितिबन्धतोऽवरोहकस्य जघन्यस्थितिबन्धस्य द्विगुणत्वेनाऽष्टाचत्वारिंशन्मुहूतेप्रमाणत्वेनपूर्वपदरः षोडशमुहुराधिक्यं निश्च तव्यम् । (६२) तत उपशमकम्य मायायाः जघन्यस्थितिबन्धः संख्यातगुणः । श्रेणि प्रतिपद्यमा. नस्य मायाया जघन्यस्थितिबन्धकमासिकत्वेन पूर्वतः संख्यातगुणत्वं युज्यते । (६) ततः प्रतिपातुकस्य मायाया जघन्यस्थितिबन्धः संख्यातगुण: । श्रेणितः प्रतिपातुकस्य मायाया जघन्यस्थितिबन्धस्याऽऽरोहकतो द्विगुणत्वेन द्वैमासिकत्वेनेति यावत्पूर्वपदतः संख्यातगुणत्वं सहेतुकम् । (६४) तेनोपशमकस्य मानस्य जघन्यस्थितिबन्धस्तुल्यः । श्रणि प्रतिपद्यमानस्य मानस्य चरमस्थितिबन्धस्य द्वैमासिकत्वेन पूर्वेण समानत्वं संभवति । (६५) ततः प्रतिपातुकस्य मानस्य जघन्य स्थितिबन्धः संख्यातगुणः । आरोहकतोऽवतारकस्य स्थितिबन्धस्य द्विगुणत्वेन पूर्वतः संख्यातगुणत्वं सिध्यति । (६६) तेनाऽऽरोहकस्य क्रोधस्य जघन्यस्थितिबन्धस्तुल्यः । आरोहकस्य क्रोधस्य चरमस्थितिवन्धस्य चातुर्मासिकत्वेन पूर्वेण समानत्वं भवति । (६७) ततः प्रतिपततः क्रोधम्य जघन्यस्थितिबन्धसंख्येय गुणः । आरोहकतोऽवरोहक स्य स्थितिबन्धस्य द्विगुणत्वात् । (६८) तत उपशमकस्य पुरुषवेदस्य जघन्यस्थितिबन्धस्संख्यातगुणः । उपशमकस्य चरम स्थितिबन्धस्य षोडशवर्षप्रमाणत्वेन पूर्वतः संख्येयगुणत्वे न कश्चिद्दोषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332