Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 309
________________ अल्पबहुत्वम ] चारित्रमोहनीयोपशमनाधिकारः [ २५१ भिन्नत्वेन पूर्वतः संख्यातगुणत्वे न कश्चिद्दोषः । कथमिति चेद् ? उच्यते-यावानन्तरकरणाऽऽयामस्तावत्यायामे चारित्रमोहनीयप्रकृतय उपशान्ता न तिष्ठन्ति, अपि त्वन्तकरणाऽऽयामसंख्येयतमभागपर्यन्तमेवोपशान्तास्तिष्ठन्ति, ततः परं क्रमशोऽनुपशान्ता भवन्ति । अन्तरकरणाऽऽयामश्चाऽन्तरकरणक्रियाकाले चारित्रमोहनीयस्य दलिकाऽभाववती कृता स्थितिरुच्यते, सा चेत्थं पूर्वतस्संख्यातगुणा संभवति । (५०) ततो दर्शनमोहस्याऽन्तराऽऽयामस्संख्यातगुणः । अत्राऽपि पूर्ववदर्शनत्रिकाऽन्तरकरण क्रियाकाले दर्शनत्रिकस्य दलिकाऽभाववती कृता स्थितिर्वाच्या । (५१) ततो जघन्याऽबाधा पंख्यातगुणा। सूक्ष्म संपरायचरणसमयवध्यमानमोहनीयवर्जषट्कर्मणां तथा मोहनीयकर्मणोऽनिवृत्तिकरणचरमसमये जघन्याऽबाधा प्राप्यते, सा चान्तमुहूर्तप्रमाणा पूर्वतस्संख्यातगुणा भवति । (५२) तत उत्कृष्टाऽबाधा संख्यातगुणा । उत्कृष्टाऽबाधा चाऽवतारकाऽपूर्वकरणचरमसमये प्राप्यते, आरोहकमुश्मसंपरायचरमसमयसत्कस्थितिबन्धतः प्रतिपातुकाऽपूर्वकरणचरमसमयसत्कस्थितिबन्धस्य संख्यातगुणत्वेनाऽबाधायाश्च स्थितिबन्धाऽनुसारित्वात्तस्याः पूर्वतः संख्यातगुणत्वं सिध्यति । (५३) ततः प्रतिपद्यमानस्य मोहनीयस्य जघन्यस्थितिबन्धः संख्यातगुणः पूर्वतोऽनिवृत्तिकरणचरमसमयेमोहनीयकर्मणां स्थितिबन्धस्य संख्यातगुणेन बृहत्तराऽन्तमुहूर्तप्रमाणत्वं निश्चेतव्यम् । (५४) ततः प्रतिपातुकस्य मोहनीयस्य जघन्यस्थितिबन्ध संख्यातगुणः । प्रतिपातुका. ऽनिवृत्तिकरणप्रथमसमयभावी ग्राह्याः, प्रतिपद्यमानस्थितिबन्धतः प्रतिपातुकस्थितिबन्धस्य द्विगुणत्वेन पूर्वतः संख्यातगुणत्वं सिध्यति । (५५)तत उपशमकस्य घातित्रायस्य जघन्यस्थितिबन्धस्संख्यातगुणः । स चाऽऽरोहकसूक्ष्मसंपरायचरमसमये प्राप्यते, तस्य चाऽन्तमुहूर्तप्रभाणत्वेऽपि पूर्वतः संख्यातगुणत्वं सुमन्तव्यम् । (५६) ततः प्रतिपातुकस्य घातित्रयस्य जघन्यस्थितिबन्धः संख्यातगुणः । स चाऽवरोहकस्य सूक्ष्मसंपरायप्रथमसमये भवति, आरोहकतोऽवरोहकस्य स्थितिबन्धस्य द्विगुणत्व. नियमात्पूर्वतः संख्यातगुणत्वं युक्तमेव । (५७) ततोऽन्तमुहूर्तकालः संख्यातगुणः । इतः पूर्वपदानामन्तमुहृतमात्रत्वेऽपि अन्तमुहूर्त कालस्य भेदबाहुल्यादस्य समयोनमुहूर्तप्रमाणस्योत्कृष्टाऽन्तमुहर्तकालस्य पूर्वतस्संख्यातगुणत्वं सयुक्तिकम् । अतः परं पदानां कालो मुहूर्ततोऽधिको भवतीति ज्ञातव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332