________________
२४: ) उपशमनाकरणम्
[ गाथा ६५ स्थितेःप्रथमस मयादारभ्य तच्चरमसमयपर्यन्तं मायात्रिकमुपशमयन्नपि न सथोपशमयति, किन्तु समयोनावलिकाद्वयेन बद्धनूतनदलमनुपशान्तत्वेन सत्तायां स्थापयति, ततोऽनन्तरं तावता काले नोपशमयतीति कृत्वा मायाप्रथमस्थित्याद्यसमयानच्चरमसमयपर्यन्तं यो मायावेदककालः, ततः समयोनावलिकाद्वि केनाऽधिक उपशमनकालः, तथा मायावेदकालतो मायाप्रथमस्थितिराव. लिकयाऽधि केन्युक्तत्वाद् मायाप्रथमस्थितितो मायोपशमनकालः समयोनावलिकयाऽधिकः ।
(२५) ततः प्रतिपद्यमानस्य मानवेदकाऽद्धा विशेषाधिका ।
(२६) ततः प्रतिपद्यमानस्य मानकषायम्य प्रथमस्थितिर्विशेषाधिका । इदं पदं पूर्वत आवलिकयाऽधिकं भवति, प्रथमस्थितेरावलिका यां शेष यां मानोदयस्य व्यवच्छेदात् ।
(२७) ततो मानोपशमन कालो विशेषाऽधिकः, समयोनावलिकामात्रेणाऽधिकत्वात् । तत्र कारणं तु चतुर्विंशतितमपदवज्ज्ञातव्यम् । नवरमत्र मायास्थाने मान इति वक्तव्यम् ।
(२८) ततः क्रोधोपशमनाऽद्धा विशेषाधिका । यद्यपि क्रोधवेदकाऽद्धायां पूर्णायां क्रोधस्य प्रथमस्थितिरावलिकामाव्यवतिष्ठते, तथा ततः प्रभृति समयोनावलिकाद्वयेन बद्धनूतनदलमुपशमयतस्तावता कालेनोपशमयति. तथाऽपि मानादिवत्क्रोधवेदककालतः क्रोधप्रथमस्थितिर्विशेषाऽधिका. ततोऽपि क्रोधोपशमन कालो विशेषाधिक इति न वक्तव्यम् , यतो यथाप्रवृत्तकरणप्रथमसमयात्संज्वलनक्रोधं तावद्वेदयति, यावदनिवृत्ति करणे यावत्संज्वलनक्रोधोदयम्य चरमसमयः । तेन यथाप्रवृत्त करणप्रथमसम याद निवृनिकरणे क्रोधवेदनस्य चरमसमयपर्यन्तं क्रोधवेदवाऽद्धोच्यते, तथाऽनिवृत्तिकरणेऽन्तरकरण क्रियायां समाप्तायामनन्तरसमयादारभ्य क्रोधवेदन चरमसमयत आवलिकयाऽधिका प्रथमस्थितिभवति, क्रोधोपशमना तु प्रथमस्थितेनपुसमवेदस्त्रीवेदहास्य षटकानामुपशमनाकाले व्यतीते क्रोधस्योपशमना प्रारभ्यते, सा च तावत् प्रवर्तते यावत्क्रोधचरमोदयसमयात्समयोनाऽऽवलिकाद्विकप्रमाणः कालो व्यतिक्रान्तो भवति, ततः क्रोधवेदनकालः सर्वप्रभूतः, ततो हीना क्रोधस्य प्रथमस्थितिः, ततोऽपि न्यूनः क्रोधोपश. मनकाल इत्येव भवति, न तु मानादिक्रमेणाऽल्पबहुत्वं वक्तव्यम् ।
स्थापना चेत्थम्
यथाप्रवृत्तकरणम | अपूर्वकरणम् | प्र- निवृ-त्ति | क | | र । णम् य .................. 'क्रोधवेदनकालः क.............-... बप्रथमस्थिति.ब'... झ समयोनावलिकद्वयबद्धानुपशान्तं तावत्कालेनोपशान्तम् ब'.................. . बउच्छिष्टालिका स्ति बुकसंगमेण संक्रमति मानकषाये ज ................... झक्रोधोपशमनकाल:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org