________________
अल्पबहुत्वम् ] चारित्रमोहनोयोपशमनाधिकारः
[ २४५ (१६) ततो बादरलोभस्य प्रथम स्थितिर्विशेषाधिका । आरोहकस्य मायावेदनाऽनन्तरं बादरलोभवेदकाऽद्धातः श्रेणिं प्रतिपयमानस्य लोभस्य प्रथमस्थितिरावलिकाकालेनाऽधिका भवतीति कृत्वा बादरलोभस्य प्रथम स्थितिः पूर्वतो विशेषाऽधिका जायते ।। ___# (१७) ततः प्रतिपातुकलोभवेदकाद्धा विशेषाधिका । अस्याः सूक्ष्मवादरलोमवेदकाऽद्धाद्वयप्रमाणत्वेन पूर्वत आधिक्यं भवति ।
(१८) ततः प्रतिपततः मायावेदकाद्धा विशेषाऽधिका । लोभवेदकालतो मायावेदाऽद्धाया आधिक्यात्पूर्वतो विशेषाऽधिक्यं संभवति किं कारणमिति चेद् ? उच्यते---श्रेणि प्रतिपद्यमानस्य मानवेदककालतो मायावेदककालो विशेषहीनः, ततोऽपि लोभवेदककालो विशेषहीन इति नियमाप्रतिपातुकस्य लोभवेदककालतो मायावेदककालो विशेषाऽधिको भवति, एवमग्रेऽपि यथास्थानं भावनीयम् ।
(१६) ततः प्रतिपातुकस्य मायात्रिकलोभत्रिकरूपषट्कषायाणां गुणश्रेण्यायामो विशेषाऽधिकः । प्रतिपतन् लोभवेदकाऽद्धायां व्यतिक्रान्तायां द्वितीयस्थितितोमायात्रिकं समाकृष्य वेदयति, तदानीं संज्वलनमायाया उदयसमयादप्रत्याख्यानावरणप्रत्याख्यानावरणमायाद्विकस्य लोभत्रिकस्य चोदयावलिकोपरितननिषेकाद्गुणश्रेणि मायावेदककालत आवलिकयाऽधिक आयामे विरचयति, तेन षण्णां कषायाणां गुणश्रेणिनिक्षेपः पूर्वतो विशेषाधिकः संभवति । अत्राऽपि लोभमायाभ्यामितरकषायेणाऽऽरूढप्रतिपातुकस्य षण्ण कषायाणां गुणश्रेणिनिक्षेपस्तावानेव भवति ।
(२०) अवतारकस्य मानवेदकाऽद्धा विशेषाऽधिका हेतुस्त्वष्टादशपद उक्त एव बोद्धव्यः ।
(२१) ततो मानवेदयतः प्रतिपातुकस्य नवानां कषायाणां गुणश्रेणिनिक्षेपो विशेषाऽधिकः । मायावेदकाद्धायां व्यतीतायां प्रतिपातुको मानं समाकृष्य वेदयति । तदानीं मानत्रिकमायात्रिकलोभत्रिकरूपनवप्रकृतीनां गुणणि मानवेदकाऽद्धात आवलिकयाऽधिकायामे रचयति ।
(२२) तत आरोहकस्य मायावेदकाऽद्धा विशेषाधिका।
(२३) तत आरोहकस्य संज्वलनमायायाः प्रथमस्थितिविशेषाऽधिका, संज्वलनमायावेदककालतः संज्वलनमायायाः प्रथमस्थितेराबलिकयाऽधिकत्वात् ।
(२४) ततो मायोपशमनकालो विशेषाऽधिकः, यतो मायोपशमनकालः पूर्वतः समयोनाऽऽवलिकयाऽधिको भवति । कथमेतदवसीयते ? इति चेद्, उच्यते-संज्वलनमायासत्कप्रथमॐ “ततः पतत्बादरलोमवेदककालो विशेषाऽधिक इति लब्धिसारटोकायां यदुक्तं तञ्चिन्त्यं तस्य
त्रयोदशपद उक्तत्वात ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org