________________
२४४ ] उपशमनाकरणम
[ गाथा ६५ प्रमाणाऽऽयामे गुणश्रेणिं रचयति, अतः प्रतिपातुकसूक्ष्मसंपरागुणश्रीणिनिक्षेपः पूर्वतो विशेषाऽधिको भवति ।
(११) तत आरोहकसूक्ष्मसंपरायकालः सूक्ष्मकिट्टिप्रथमस्थित्यायामः सूक्ष्मकिय पशमनकालश्च विशेषाधिकाः स्वस्थाने च मिथस्तुल्या भवन्ति । आरोहकः सूक्ष्मसंपरागुणस्थानकप्रथमसमये द्वितीयस्थितितः किट्टीः समाकृष्य सूक्ष्मसंपरायाऽद्धाप्रमाणं सूक्षमलोभस्य प्रथमस्थिति करोति तथा तत्प्रथमसमयात्सूक्ष्मकिट्टीरनुभवन्सूक्ष्मसंपरायचरमसमयपर्यन्तमुपशमयति, तेन सूक्ष्मसंपरायप्रथमसमयात्तचरमसमयपर्यन्तं सूक्ष्मकिट्टयु पशमनकालोऽपि संभवतीति कृत्वा त्रयः ।। कालाः परस्परं तुल्या भवन्ति । आरोहकस्य सूक्ष्मलीभवेदककालतोऽवरोहकसूक्ष्मलोभवेदक. कालस्य किश्चिन्न्यूनत्वस्य प्रागुक्तत्वाच न्यूनत्वमावलिकातोऽधिकमितिकृत्वा पूर्वत एते त्रयः कालाः विशेषाधिकाः परस्परं च तुल्या भवन्ति ।।
(१२) ततः किट्टिकरणाऽद्धा विशेषाऽधिका । लोभवेदकाऽद्धायास्त्रयो विभागाः क्रियन्ते तद्यथा-(१) अश्वकर्णकरणाऽद्धा (२) किट्टीकरणाऽद्धा (३) किट्टीवेदनाऽद्धा च । एतेषां क्रमशो विशेषहीनन्वं प्रागुक्तमिति किट्टिवेदनाऽद्धालक्षण सूक्ष्मसंपरायाऽद्धातः किट्टिकरणाऽद्धा विशेषाऽधिका घटते ।
(१३) ततोऽवतारकस्य बादरलोभवेदकाद्धा संख्येयगुणा। आरोहककिट्टिकरणाद्धाया द्विगुणतोऽप्यधिका आरोहकवादरलोभवेदकाऽद्धा भवति, ततः प्रतिपातुकबादरलोभवेदकाऽद्धायाः किश्चिन्यूनत्वस्यै वोक्तत्वादवतारकलोभवेदकाऽद्धा पूर्वतः संख्यातगुणा संभवति ।
(१४) ततः प्रतिपातुकस्य लोभत्रयस्य गुणश्रेणिनिक्षेपो विशेषाऽधिकः परस्परं च तुल्यः । अनिवृत्तिकरणप्रथमसमये प्रतिपातुको द्वितीयस्थितितो दलं गृहीत्वा लोभत्र यस्य गुणश्रेणिं बादरलोभवेदकाऽद्धात आवलिकामात्रेणाऽधिक आयामे रचयनि । यद्यप्यप्रत्याख्यानप्रत्याख्यानावरणद्विकप्त्योदयावलिकाया उपरि गुण श्रेणिर्भवति, तथाऽपि संज्वलनलोमस्य गुणश्रेणिशीणेतर. लोगद्विकस्य गुणश्रेणिशीर्षस्य ममानत्वात्तयोरायामस्याऽपि सदृक्षात्वादिति कृत्वा पूर्वतोऽवतारकाऽनिवृत्तिकरणगणश्रेणिनिक्षेप आवलिकया विशेषाधिकः । अत्राऽयं विशेषः-लोभेतरकषायोदयेनाऽऽरूढप्रतिपातुकस्याऽपि लोभस्य तावानेव निक्षेपो भवति ।
(१५) तत उपशमकस्याऽनिवृत्तिकरणगुणस्थान के बादरलोभवेदकाऽद्धा विशेषाधिका । आरोहकलोमवेदकाद्धादितोऽवरोहकलोभवेकाऽद्धादीनां किश्चिन्यूनत्वमिति नियमान्न्यूनत्वं आऽऽवलिकातोऽधिक संभवतीति कृत्वाऽऽरोहकवादरलोभवेदकाऽद्धा पूर्वतो विशेषाधिकाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org