SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्वम् ] चारित्रमोहनी योपशमनाधिकारः [ २४३ वक्तव्ये स्याताम् , नैवमुच्यते । तेनाऽवतारकस्य स्थितिघाताः न भवन्तीति सिध्यति । एतच्च कषायप्राभूतचूर्णिकारमतेन संभवति, अल्पबहुत्वस्य कषायप्राभूतचूर्णिमतानुसारित्वात् । पञ्चसंग्रहटीकाकुन्मतेन प्रतिपातुकस्यापि स्थितिघाता भवन्त्येव । यदुक्तम् "तथा यत् यत्र स्पाने जातं स्थितिरसघातादि तत्तत्र स्थाने तद्वीधमेव भवतोति।" (५) ततोऽन्तरकरणक्रियाकालो विशेषाधिकः। न चाऽन्तरकरणक्रियाकालस्यैकस्थितिबन्ध कालेन तुल्यत्वेनाऽवतारकजघन्यस्थितिबन्धाऽद्धातोऽन्तरकरण क्रियाकालस्य विशेषाधिक्यं न संभवतीति वाच्यम् , यतोऽनिवृत्तिकरणसत्के संख्येयतमे भागेऽवशिष्टेऽन्तरकरणं स्थितिघातोऽभिनवस्थितिबन्धश्च युगपदारभ्यन्ते, एकेन स्थितिबन्धकालेनाऽन्तकरणं करोति, अत्र यद्यपि तत्कालीन स्थितिबन्धकालेनाऽन्तरकरणं करोतीति नोक्तं तथाऽपि प्रकृतत्वात्तत्कालेनाऽन्तरं करोतीत्येवाऽर्थसंभवेनाऽवतारकस्य जघन्यस्थितिबन्धकालतोऽनिवृत्तिकरणसंख्येयतमे भागेऽव. शिष्यमाण आरभ्यमाणस्थितिबन्धकालो विशेषाऽधिकः संभवति, तत्स्थितिबन्धकालेन चाऽन्तरकरणक्रियाकालतुल्यात्वात्पूर्व पदतोऽन्तरकरणक्रियाकालो विशेषाऽधिको भवति । (६) तत उत्कृष्टस्थितिबन्धाद्धा उत्कृष्टस्थितिखण्डोत्कीर्णाऽद्धा च विशेषाधिके । सप्तानामपि कर्मणामारोहकस्याऽपूर्वकरणप्रथमसमय आरभ्यमाणस्याऽभिनवस्य स्थितिबन्धस्य स्थितिघातस्य च यः कालः पूर्वतो विशेषाऽधिक इति निश्चेतव्यः, किं कारणमिति चेत् ? उच्यते-उत्तरोत्तरस्थितिबन्धकालस्य स्थितिघातकालस्य च विशेषहीनत्वेनाऽनयोः स्थितिबन्धकालस्थितिघातकालयोरन्तरकरणक्रियाकालतुल्यस्थितिबन्धकालतो विशेषाऽधिकत्वसंभवात्पूर्व पदत उत्कृष्टस्थितिबन्धकालस्थितिघातकालौ विशेषाऽधिको परस्परं च तुल्यो भवतः । (७) तत आरोहकसूक्ष्मसंपरायचरमसमयभाविगलिताऽशेषगुणश्रेण्यायामः संख्यातगुणः । स च गुणश्रेण्यायामः षण्णामपि कर्मणां सूक्ष्मसंपरायचरमसमये भवति, पूर्वतश्च संख्यातगुणः प्रागन्तमुहूर्ततोऽस्याऽन्तर्मुहूर्तकालस्य संख्यातगुणत्वात् । (८) तत उपशान्तमोहगुणस्थानकगुणश्रेणिनिक्षेपः संख्यातगुणः । सूक्ष्मसंपरायचरमसमय. गलिताऽवशेषगुणश्रेण्यायामत उपशान्तमोहगुणस्थानकप्रथमसमये संख्येयगुणामवस्थिताऽऽयामा गुणश्रेणिं करोतीत्युक्तत्वात्पूर्वत उपशान्तमोहगुणश्रेणिनिक्षेपः संख्यातगुणः सिध्यति । (९) ततः प्रतिपातुकस्य सूक्षमसंपरायाऽद्धा संख्यातगुणा । (१०) ततः प्रतिपातुकस्य सूक्ष्मसंपरायलोभगुश्रेणिनिक्षेपो विशेषाधिकः। श्रेणितः प्रतिपतन सूक्ष्मसंपरायप्रथमसमये द्वितीयस्थितितः किट्टीः समाकृष्य मूक्ष्मवेदकाऽद्धात आवलिकाऽधिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy