________________
२४२ ] उपशमनाकरणम्
[ गाथा ६५ अल्पबहुत्वम् संप्रति पुरुषवेदसंज्वलनक्रोधोदयारूढस्याऽऽरोहकाऽपूर्वकरणप्रथमसमयादारभ्याऽपूर्वकरणचरमसमयपर्यन्तं संभाव्यमानानामष्टानवतिपदानां कालतोऽल्पबहुत्वमभिधीयते
(१) जघन्याऽनुभागखण्डोत्कीर्णोद्धा सर्वाऽल्पा । सा चाऽऽरोहकस्य सूक्ष्मसंपरायचरमसमये समाप्यमानाऽनुभागखण्डोत्कीर्णोद्धा संभवति ।
(२) तत उत्कृष्टानुभागखण्डोत्कीर्णोद्धा विशेषाधिका, सा चाऽऽरोहकाऽपूर्वकरणप्रथमसमये प्रारभ्यमानाऽनुभागखण्डोत्कीर्णोद्धा निश्च तव्या पूर्वतश्च विशेषाऽधिका ।
(३)ततो जघन्यस्थितिबन्धाद्धाजघन्यस्थितिवाताद्धाच संख्येयगुणे परस्परं च तुल्ये पण्णामपि कर्मणामारोहकसूक्ष्मसंपरायचरमसमये समाप्यमानस्थितिघातस्य कालस्तत्कालीनस्थितिबन्धकालश्च पूर्वतः संख्यातगुणौ परस्परं च तुल्यौ भवतः। कथमेतदवसीयत इति चेद् १उच्यते,एकस्मिन स्थितिघाते रसघातसहस्राणां भवनास्थितिघातकालेन च स्थितिबन्धकालस्य तुल्यत्वनियमादारोहकसूक्ष्मसंपरायचरमसमये समाप्यमानस्थितिघातकालेन तत्कालीनस्थितिबन्धस्य तुल्यत्वं सिध्यति ।
(४) ततोऽवतारकस्य जघन्यस्थितिबन्धाऽद्धा विशेषाधिका । यदा जन्तुःश्रेणिमारोहति, तदा तस्य जन्तोर्विशुद्धिवर्धते । आरोहकस्य विशुद्धेः प्रवर्धमानत्वादुत्तरोत्तरस्थितिबन्धाद्धा हीना भवति, प्रतिपातुकस्य तु संक्लेशस्याऽभिवर्धनादुत्तरोत्तरस्थितिबन्धाऽद्धा विशेषाधिका सञ्जायते । तेनाऽऽरोहकस्य सूक्ष्मसंपरायचरमसमयसमाप्यमानस्थिनिबन्धकालतोऽवतारकस्य सूक्ष्मसंपराय
प्रथमसमयमा वेस्थितिबन्धकालो विशेषाऽधिकः । श्रेणितः प्रतिपततस्तु स्थितिघाता न भवन्ति। कथमेतदनुगन्तव्यमिति चेद् ? उच्यते, यद्यवतारकस्य स्थितिघाता मन्येरन्, तो वतारकस्य जधन्यस्थितिबन्धाद्धा तत्कालीना स्थितिघाताद्धा च परस्परं समाने पूर्वतश्च विशेषाऽधिके
के टिप्पणी- ततोज्ञानावरणादिकर्मणां जघन्यस्थितिकण्डकोत्कीर्ण काल : सूक्ष्मसंपरायचरमसमयसंभव्यनिवृत्तिकरणचरमसमयसंभत्री मोहनीयस्य जघन्यस्थितिबन्धकालश्च संख्यात गुणो परस्परं समाना इति लब्धिसारे यदुक्तं तच्चिन्त्यं किं कारणमिति चेद् ? उच्यते सप्तानामपि कर्मणामनिवृत्तिकरणचरमसमये समानस्थितिबन्ध काल: परस्परं तुल्य : संभवति, अन्यथा स्वीकारे प्रत्येक कर्मणां स्थितिबन्धाद्धा पृथक वक्तव्या स्यात् ' अनिवृत्तिकरणचरमसमयतः परं सहस्रषु स्थितिबन्धेषु गतेषु सूक्ष्मसंपरायचरमसमये समाप्यमानस्थितिबन्धस्य कालोऽवाप्यते, तेनानिवृत्तिकरणचरमस्थितिबन्धकालतः सूक्ष्मसंपराय. चरमस्थितिबन्धकालो विशेषहीनो वक्तव्यः,उत्तरोत्तरस्थितिबन्धकालस्य विशेषहोनत्वादतो मोहनीयस्य जघन्य स्थितिबन्धकालतः शेषषटकर्मणां जघन्य स्थितिबन्धकालो विशेषहीन एव संभवति न तुल्यः ।। .एदेण सुत्तणिवेसेण जाणिज्जदे जहा ओदरमाणस्स सव्वावस्थासु ट्ठिदि अणुभागघादा स्थिति जह प्रत्थि ते अोदरमाणस्स ट्ठिदिबधगद्धाए सह ट्ठिदिखंडयउक्कीरणद्धपि भणेज्ज ण च एव तहाणु। वठ्ठत्तादो। (१९२६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org