Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 305
________________ अल्पबहुत्वम् ] चारित्र मोहनीयोपशमनाधिकारः [ २४७ (२९) ततो हास्यपट्कोपशमनकालो विशेषाऽधिकः, क्रोधोपशमनकालतो हास्यषट्कोपशमनकालस्य विशेषाऽधिकत्वात् । (३०) ततः पुरुषवेदोपशमनकालो विशेषाऽधिकः । यतो हास्यषट्कोपशमनकालतः समयोनावलिकाद्विकेनाऽधिकपुरुषवेदोपशमनकालो भवति पुवेदारूढस्य, न सर्वस्य, कथमेतदवसीयत इति चेद् ? उच्यते-यद्यपि हास्यषटकं पुरुषवेदं च युगपदुपशमयितुमुपक्रमते, तथाऽपि हास्यषट्के सर्वथोपशान्तेऽपि पुरुषवेदस्य समयोनावलिकाद्विकेन बद्धनूतनदल मनुपशान्तं तिष्ठति, तदपि तावता कालेनोपशमयतीति कृत्वा पुरुषवेदोपशमनकालो समयोनावलिकाद्विकेनाऽधिको भवति ।। (३१) ततः स्त्रीवेदोपशमनाद्धा विशेषाधिका, पुरुषवेदोपशमनकालतः स्त्रीवेदोपशमनकालो विशेषाऽधिकः, किं कारणमिति चेद् ? उच्यते- श्रेणिमारोहतः पूर्वपूर्वत उत्तरोत्तरसमये विशोधिः प्रवर्धते, तेन प्रागुपशम्यमानप्रकृतीनामुपशमनायां कालः प्रभूतो गच्छति, पश्चादुपशम्यमानप्रकृतीनामुपशमनायां कालो हीनो हीनतरो व्यतिक्रमति, तत्र विशुद्धराधिक्यादिति संभावयामहे। (३२) ततो नपुसकवेदोपशमनकालो विशेषाऽधिकः । हेतुस्तु पूर्ववदवगन्तव्यः । (३३) ततः क्षुल्लकभवो विशेषाऽधिकः । षट्पञ्चाशदधिकद्विशतावलिकाप्रमाणः पूर्वतश्च विशेषाऽधिकः । (३४) तत उपशान्ताऽद्धा द्विगुणा, उपशान्तमोहगुणस्थानककालः पूर्वतो द्विगुणो भवतीत्यथः । (३५) ततः पुरुषवेदस्य प्रथमस्थितिर्विशेषाऽधिका । (३६) ततः क्रोधस्य प्रथमस्थितिर्विशेषाऽधिका । अन्तरकरण क्रियायां पूर्णायां क्रोधस्य पुरुषवेदस्य च प्रथमस्थितिर्भवति, तस्यां च क्रमेण नपुंसकवेदहास्यषटकपुरुषवेदानुपशमयति । तत्र हास्यषट्के सर्वथोपशान्ते पुरुषवेदस्य प्रथमस्थितिरपगच्छति, ततः परं क्रोधस्य प्रथमस्थितिमनुभवन् क्रोधत्रिकं चोपशमयन्नपि क्रोधवेदकाऽद्धाचरमसमयपर्यन्तमुपशमयति, तत आवलिकाऽनन्तरं क्रोधस्य प्रथमस्थितिरपगच्छतीति कृत्वा पुरुषवेदस्य प्रथमस्थितितः क्रोधस्य प्रथमस्थितिर्विशेषाऽधिका भवति, आधिक्यं च तस्याः किश्चिन्न्यूनपुरुषवेदप्रथमम्थितिसत्कत्रिभागेन संभवति । कथमेतदवसीयत इति चेद् ? उच्यते, क्रोधस्य प्रथमस्थितौ क्रमशश्चत्वारि कार्याणि भवन्ति, प्रथमं नपुसकवेदोपशमना द्वितीयं स्त्रीवेदोपशमना तृतीयं च पुरुषवेदेन सह हास्यषट्कोपशमना चतुर्थं च समयोनावलि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332