________________
२३८ ] उपशमनाकरणम्
[ गाथा ६५ पुरुषवेदक्रोधोदयप्रतिपन्नस्याऽपगतवेदस्य यावान कालः क्रोधोपशमनायां गच्छति, तावता कालेन मानोदयारूढः क्रोधत्रयमुपशमयति, संज्वलनक्रोधस्य केवलं समयोनावलिकाद्विकनूतनबद्धदलिकमनुपशान्तं तिष्ठति, तदानीमेव संज्वलनक्रोधस्य बन्धो व्यवच्छिद्यते । ततः प्रभूति मानविकमुपशमयन् संज्वलनक्रोधस्य समयोनावलिकाद्विकेन बद्धदलिकं तावता कालेन पुरुषवेदोक्तप्रकारेणोपशमयति, शेषं पूर्ववत् , यथा-मानमुपशमयतो जन्तोः संज्वलनमानस्य प्रथमस्थितेः समयोनावलिकात्रिके शेषे संज्वलनमानस्य पतद्ग्रहताऽपगच्छति, आवलिकाद्विके शेष आगालो व्यवच्छिन्न आवलिकायां च शेषायां बन्धोदयोदीरणा व्यवच्छिद्यन्ते, तदानीं च मानत्रिकं सर्वथोपशान्तं भवति, नवरि संज्वलनमानस्य समयोनावलिकाद्वयबद्धनूतनदलं तथाऽऽवलिकामात्रप्रथमस्थितिगतं दलमनुपशान्तं तिष्ठतीत्यादि पूर्व वदवसे यम् । प्रतिपाते प्रक्रियाविशेषः
मानोदयेनाऽऽरूढो यदि प्रतिपतेत्तहि स सूक्ष्मपरायप्रथमसमयादारभ्य मायावेदाद्धाचरमसमयं यावत्पुरुषवेदक्रोधोदयेनारूढवत्प्रक्रियां करोति,न कश्चिद्विशेषः । ॥ ततो मानोदयारूढः प्रतिपातुको मानवेदकाऽद्धायाः प्रथमसमयादारभ्य नवानामपि कषायाणां गलिताऽवशेषमात्री गुणश्रेणिं विरचपति, तदायामश्च शेषकर्मगुणश्रेण्यायामेन एकादशो भवति । इह मानवेदकाऽद्धा क्रोधारूढप्रतिपातुकक्रोधमानोदयसमृहितकालप्रमाणः। पुरुषवेद क्रोधोदयारूढस्य मानवेदकाऽद्धायां व्यतिक्रान्तायां पुरुषवेदमानारूढस्य प्रतिपततः क्रोधत्रयमनुपशान्तं भवति, तदानीं द्वितीयस्थितितो दलिकं गृहीत्वोदयावलिकाया उपरितननिषेकाक्रोधत्रिकदलानि शेषकर्मगुणश्रेण्यायामेन सदृशे गुणश्रेण्यायामे रचयति, स चाऽऽयामो गलिताऽवशेषमात्रः, इत्थं तदानीं द्वादशकषायाणां गलिताऽवशेषगुणश्रेणिर्भवति तथा चारित्रमोहनीयस्य द्वादशप्रकृत्यात्मकं सक्रमस्थानं क्षायिकसम्यग्दृष्टिना प्राप्यते । शेषं पुरुषवेशक्रोधोदयारूढप्रतिपातुकवदवगन्तव्यम् । अथ मायावेदोदयारूढस्याऽऽरोहणप्रक्रियायां विशेषो भण्यते ।
अथ आरोहणप्रक्रियाया विशेषः पुरुषवेदक्रोधोदयारूढस्य, संज्वलनक्रोधमानमायानां त्रयाणां समुदिता यावन्मात्री प्रथमस्थितिरासीत् , तावन्मात्री पुरुषवेदमायारूढम्य संज्वलनमायायाः प्रथमस्थितिर्भवति । शेषाणामनुदयवतीनां प्रकृतीनामावलिकामात्री प्रथमस्थितिः क्रियते । पुरुषवेदसंज्वलनक्रोधोदय द्वयारूढवतावद्वक्तव्यम् , यावत्पुरुषवेदस्योदयचरमसमयः, पुरुषवेदोदयस्य चरमसमये हास्यपटकं पुरुषवेदं काटिप्पणीः-लब्धिसारे यत्कषायेन श्रेणि प्रतिपन्नस्तं कषायं प्राप्याऽन्तरं पूरयतीत्युक्तम् । यस्यकषाय
स्योदयेन श्रणिमारुह्य पतितस्तस्मिन्नप्रकृष्टेऽन्तरमापूरयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org