SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ मायारूढस्यारोहणावरोहणे ] चरित्रमोहोपशमनाधिकारः [ २३६ च सर्वथोपशम्यते नवरं पुरुषवेदस्य समयोनावलिकाद्विकबद्धदलिकमनुपशान्तं तिष्ठति, तदपि तावता कालेन संज्वलनमायां वेदयन्क्रोधत्रिकं चोपशमय नवेदकोऽयं सर्वथोपशमयति । पुरुषवेदक्रोधोदयेनोपशमश्रेणि प्रतिपन्नस्य संज्वलनक्रोधस्य समयोनावलिकाद्विकबद्धं नूतनदलं विमुच्य क्रोधत्रिकस्योपशमनायां यावन्तं कालं गमयति, तावति कालेऽयं पुरुषवेदमायोदयारूढः क्रोधत्रिक नपुसकवेदोक्तप्रकारेण सर्वथोपशमयति नवरं समयोनावलिकाद्विकनूतनबद्धदलमनुपशान्तं तिष्ठति, तदानीमेव संज्वलनक्रोधम्य बन्धो व्यवच्छिद्यते । ततः प्रभृति संज्वलनमानत्रिकमुपशमयितुमारभते मानत्रिकं चोपशमयन संज्वलनक्रोधस्य नूतनबद्ध दलिक समयोनावलिकाद्विकेन पुरुषवेदोक्तप्रकारेण सर्वथोपशमयति । पुरुषवेदसंज्वलनक्रोधारूढो यद्वा संज्वलनमानोदयारूढो यावति काले समयोनाबलिकाद्वयबद्धनूतनदलं वर्जयित्वा मानत्रिक सर्वथोपशमयति, तावति काले पुरुषवेदमायोदयारूढो मानत्रिक नपुसकवेदोक्तप्रकारेणोपशमयति, केवलं संज्त्रलनमानम्य समयोनावलिकाद्विकेन बदलिकमनुपशान्तं तिष्ठति, तदानीं च संज्वलनमानस्य बन्धो व्यवच्छिद्यते । ततः प्रभृति मायात्रिकमुपशमयितुमुक्रमते मायात्रिकं चोपशमयन संज्वलनमानस्य समयोनावलिकाह येन बद्धनूतनदलिवं तावता कालेन पुरुषवेदोक्तप्रकारेणोपशमयति संज्वलनमायायाः प्रथमस्थिते समयोनालिकाद्वयेन बद्ध नूतनदलिकं तावताकालेन पुरुषवेदोक्तप्रकारेणोपशमयति, संज्वलनमायायाः प्रथमस्थितेः समयोनावलिकाद्विके शेषे संवज्लनमायायाः पतद्ग्रहता व्यवच्छिद्यते, आवलिकाद्विके शेष आगालो व्यवच्छिन्न आवलिकायां च शेषायां बन्धोदयोदीरणा अपगच्छन्ति । तदानीमेव समयोनाबलिकाद्वयबद्धाऽभिनवदलमनुपशान्तं तिष्ठति शेषं पूर्ववदव सेयम् । प्रतिपाते प्रक्रियाविशेषः श्रेणितः प्रतिपतन मुश्मसंपरायप्रथमसमयादारभ्य बादरलोभवेदकाऽद्धाचरमसमयपर्यन्तं पुरुषवेदक्रोधारूढप्रतिपातुकवज्ज्ञातव्यम् । ततोऽनन्तरं मायावेदकप्रथमसमये षण्णामपि कषायणां गलिताऽवशेषगुणश्रेणिं करोति तदायामश्च शेषकर्म गुणश्रेण्यायामेन सदृक्षो भवति । मायावेदकाऽद्धा च क्रोधोदयारूढप्रतिपातुकस्य क्रोधमानमायानां समुदितो यावानुदयकालस्तावान्मायोदयारूढ प्रतिपतनस्य केवलमायावेदककालो भवति, यदा क्रोधारूढाऽवतारकस्य मायावेदकाऽद्धायां व्यतिक न्तायां मानविकमनुपशान्तं भवति, तदा मायोदयारूढस्य प्रतिपातुकस्य मानत्रिकमनुपशान्तं भवति तदानीमेव द्वितीय स्थितितो मानविकम्याऽपि दलं गृहीत्वोदयावलिकाया उपरि शेषकर्मगुणश्रेण्यायाममदृशां गलिनाऽवशेषां गुण) णि रचयति, तदानीं मानत्रिकस्याऽनुपशान्तत्वेन चारित्रमोहनीयम्ए नवप्रकृत्यात्मक सङ्क्रमस्थानं क्षायिकसम्यग्दृष्टिना प्राप्यते । ★ टिप्पणी० मायावेदकप्रथमसमयेऽन्तरं पूरयतीति लब्धिसारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy