________________
२४० ] उपशमनाकरणम्
[ गाथा-६५ ततः परं क्रोधारूढप्रतिपातुकस्य मानवेदकस्य यावान्कालो भवति, तावति काले व्यतीते क्रोधत्रिकमनुपशान्तं भवति, द्वितीयस्थितितो दलं समाकृष्य क्रोत्रिकस्योदयावलिकोपरितननिषेकाच्छेषकर्मगुणश्रेण्यायामसदृशां गलिताऽवशेषामात्रीं गुणश्रेणि विरचयति । इतः प्रभृति मोहनीयस्य द्वादशप्रकृतीनां गलिताऽवशेषगुणश्रेणिःप्रवर्तते. क्रोधोपशमनाऽपगमनाच्चारित्रमोहनीयस्य द्वादशप्रकृत्यात्मकं सङ्क्रमस्थानं प्राप्यते, शेषं क्रोधारूडप्रतिपातुकपुरुषवदवधेयम् । अथ पुरुषवेदसंज्वलनलोभोदयारूढस्याऽऽरोहणप्रक्रियायां विशेष उच्यते ।
आरोहणप्रक्रियाविशेषः पुरुषवेदसंज्वलनक्रोधोदयारूढेन संज्वलनक्रोधमानमायाबादरलोभानां संपिण्डिता यावन्मात्री प्रथमस्थितिः क्रियते, तावन्मात्री संज्वलनलोभस्य प्रथमस्थितिः पुरुषवेदसंज्वलनलोभोदयारूढेन क्रियते, अर्थादन्तरकरणक्रियाकालप्रथमसमयादारभ्याऽनिवृत्तिकरणचरमसमयादग्रेतना. ऽऽवलिकापर्यन्तं संज्वलनलोभस्य प्रथमस्थितिः क्रियते, शेषाऽनुदयवतीनां च प्रकृतीनामावलिकामात्री, शेषप्रक्रिया पूर्ववत्तावद्वक्तव्या, यावत्पुरुषवेदोदयस्य चरमसमयः, तदानीं पुरुषवेदस्य वन्धो व्यवच्छिद्यते । हास्यषटकं पुरुषवेदं च सर्वथोपशमयति, केवलं समयोनावलिकाद्विकबद्धदलिकमनुपशान्तं तिष्ठति, तदपि ततोऽनन्तरसमयान्क्रोधत्रिकमुपशमयन् संज्वलनलोभं वेदयनपगतवेदोदयं तावता कालेन सर्वथोपशमयति । पुरुषवेदक्रोधोदयारूढः क्रोधत्रिकोपशमनायां यावन्तं कालं नयति, पुरुषवेदलोभोदयारूढस्तावति काले क्रोधत्रिकं नपुसकवेदोक्तप्रकारेण सर्वथोपशमयति, नवरं संज्वलनक्रोधस्य समयोनावलिकाद्विकबद्धनूतनदलमनुपशान्तं तिष्ठति । तदानीमेव संज्वलनक्रोधस्य बन्धो व्यवच्छिद्यते,अतः प्रति मानविकमुपशमयितुमारभते मानत्रिकं चोपशमयन् संज्वलनक्रोधस्य बद्धनूतनदलमपि समयोनाऽऽवलिकाद्विककालेन पुरुषवेदोक्तप्रकारेण सर्वथोपशमयति । पुरुषवेदक्रोधोदयप्रतिपन्नो यावति काले समयोनाऽऽवलिकाद्वयबद्धनूतनदलं विमुच्य मानत्रिकमुपशमयति, तावति कान्ले पुरूषवेदसंज्वलनलोभोदयारुढो मानत्रिक नपुंसकवेदोक्तप्रकारेण सर्वथोपशमयति, केवलं संज्वलनमानस्य समयोनावलिकाबद्धनूतनदलमनुपशान्तं तिष्ठति । तदानीं संज्वलनमानस्य बन्धो व्यवच्छिन्नो भवति । ततः प्रभति मायात्रिकमुपशमयन् संज्वलनमानस्य बद्धनूतनदलं समयोनावलिकाद्विकेन कालेन पुरुषवेदोक्तप्रकारेण सर्वथोपशमयति । पुरुषवेदक्रोधप्रतिपनो यावति काले समयोनावलिकाद्वयबद्धदलं वर्जयित्वा मायात्रिकमुपशमयति, तावति काले पुरुषवेदोक्तप्रकारेण लोभोदयारूढो मायात्रिकमुपशमयति, नवरं समयोनावलिकाद्वयबद्धनूतनदलमनुपशान्तं तिष्ठति तदानीमेव मायाया बन्धो व्यवच्छिद्यते । अतः प्रभृति लोभत्रिकमुपशमयितुमारभते पुरुषवेदक्रोधोदयारूढवदपूर्वस्पर्धकानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org