Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 299
________________ संज्व. लोभारूढस्य प्रतिपातः । चारित्रमोहनीयोपशमनाधिकारः [ २४१ किट्टीश्च करोति, किन्तु संज्वलनबादरलोभस्य प्रथमस्थितिर्न करोति तस्यैव वेद्यमानत्वात् । संज्वलनबादरलोमस्य प्रथमस्थितेः समयोनावलिकात्रये शेषे संज्वलनलोभस्य पतद्ग्रहताऽपगच्छति, आवलिकाद्विके शेषे संज्वलनलोभस्याऽऽगालो व्यवच्छिन्नो भवति, आवलिकायां शेषायां संज्वलन लोमस्य बन्धो बादरसंज्वलन लोभस्य चोदयोऽपगच्छति लोभत्रिकं सर्वथोपशन्तं तिष्ठति, नवरं बादरसंज्वलन लोभस्य समयोनावलिकाद्वयबद्धदलं तथा प्रथमस्थितिसत्काऽवशिष्टाऽऽवलिकागतं दलं किट्टिगतं च दलमनुपशान्तं भवति, शेषं पूर्ववत्तावदवगन्तव्यम्, यावदुपशान्तमोह गुणस्थाजकस्य चरमसमयः । अवतरणे प्रक्रियाविशेषः सूक्ष्म संपरायस्य प्रथमसमयादारभ्य तच्चरमसमयपर्यन्तं सर्वाऽपि प्रक्रिया संज्वलनक्रोधारूढवदवगन्तव्या, ततोऽनिवृत्तिकरणप्रघमसमयतो लोभारूढप्रतिपातुको लोभत्रिकस्य गलिताऽवशेषमात्र शेषकर्मगुणण्यायामेन समानां गुणणि करोति । क्रोधारूढप्रतिपातुकस्य यावान् लोममायामानक्रोधानां समुदितोदयकालस्तावान् लोभोदयारूढाऽवतारकस्य केवललो मस्योदयो भवति । क्रोधोदयारूढप्रतिपतनस्य लोभवेदकाऽद्धायामतीतायां यदा मायात्रिकमनुपशान्तं भवति, तदा लोमारूढप्रतिपादुकस्याऽपि मायात्रिकमनुपशान्तं भवति । तदानीं द्वितीयस्थितेर्मायात्रिपदलं गृहीत्वोदयावलिका बहिः शेषकर्मगुणश्रेण्यायामसदृशां गुणश्र णिं विरचयति, इतः प्रभूति षण्णां कपायाणां गलिताऽवशेषा गुणश्र ेणिः प्रवर्तते । मायात्रिकस्याऽनुपशमना तत्सङ्क्रमश्च प्रवर्तते । तदानीं षण्णां कषायाणामनानुपूर्व्या सङ्क्रमो भवति । मायात्रिकस्योपशमनाऽपगमनात्क्रोधारूढप्रतिपातुकस्य मायावेदकाऽद्धायां व्यतिक्रान्तायां यदा मानमनुपशान्तं भवति, तदा संज्वलनलोभारूढप्रतिपादुकस्याऽपि मानत्रिकमनुपशान्तं भवति । इदानीं द्वितीयस्थितितो मानत्रिकस्य दलं गृहीत्वोदयावलिकाया उपरि शेषकर्मगुणश्रेण्यायामसदृशां गलिता彝 Saशेष गुण णिं करोति । मानत्रिकस्याऽनुपशान्तत्वेन तत्सङ्क्रमसंभवात् नवकषायाणामनानुपूर्व्या सङ्क्रमः प्रवर्तते । मानत्रिकस्योपशमननाशाद्यस्मिन्काले क्रोधारूढप्रतिपातुकस्य मानवेदकाऽद्धायां व्यतिक्रान्तायां क्रोधत्रिकमनुपशान्तं भवति, तस्मिन्काले लोभारूढाऽवतारकस्याऽपि क्रोधत्रिकमनुपशान्तं भवति । तेन द्वितीयस्थितितः क्रोधत्रिकं गृहीत्वोदयावलिकाया बहिः शेषकर्मगुणण्यायामसदृशां गलिताऽवशेषमात्रीं गुणश्र ेणिं विरचयति । क्रोधत्रिकस्योपशमनाऽपगमनेन तत्सङ्क्रमप्रारम्भाद् द्वादशकषायाणां सङ्क्रम इतः प्रभृति प्रवर्तते, शेषं क्रोधारूढप्रतिपातुकवद्विनिश्च तव्यं यदा संज्वलन क्रोधमानमायालोभपुरूष वेदानामुपशान्तत्वं नश्यति, तेषां बन्ध आरभ्यते । तदा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332