Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 298
________________ २४० ] उपशमनाकरणम् [ गाथा-६५ ततः परं क्रोधारूढप्रतिपातुकस्य मानवेदकस्य यावान्कालो भवति, तावति काले व्यतीते क्रोधत्रिकमनुपशान्तं भवति, द्वितीयस्थितितो दलं समाकृष्य क्रोत्रिकस्योदयावलिकोपरितननिषेकाच्छेषकर्मगुणश्रेण्यायामसदृशां गलिताऽवशेषामात्रीं गुणश्रेणि विरचयति । इतः प्रभृति मोहनीयस्य द्वादशप्रकृतीनां गलिताऽवशेषगुणश्रेणिःप्रवर्तते. क्रोधोपशमनाऽपगमनाच्चारित्रमोहनीयस्य द्वादशप्रकृत्यात्मकं सङ्क्रमस्थानं प्राप्यते, शेषं क्रोधारूडप्रतिपातुकपुरुषवदवधेयम् । अथ पुरुषवेदसंज्वलनलोभोदयारूढस्याऽऽरोहणप्रक्रियायां विशेष उच्यते । आरोहणप्रक्रियाविशेषः पुरुषवेदसंज्वलनक्रोधोदयारूढेन संज्वलनक्रोधमानमायाबादरलोभानां संपिण्डिता यावन्मात्री प्रथमस्थितिः क्रियते, तावन्मात्री संज्वलनलोभस्य प्रथमस्थितिः पुरुषवेदसंज्वलनलोभोदयारूढेन क्रियते, अर्थादन्तरकरणक्रियाकालप्रथमसमयादारभ्याऽनिवृत्तिकरणचरमसमयादग्रेतना. ऽऽवलिकापर्यन्तं संज्वलनलोभस्य प्रथमस्थितिः क्रियते, शेषाऽनुदयवतीनां च प्रकृतीनामावलिकामात्री, शेषप्रक्रिया पूर्ववत्तावद्वक्तव्या, यावत्पुरुषवेदोदयस्य चरमसमयः, तदानीं पुरुषवेदस्य वन्धो व्यवच्छिद्यते । हास्यषटकं पुरुषवेदं च सर्वथोपशमयति, केवलं समयोनावलिकाद्विकबद्धदलिकमनुपशान्तं तिष्ठति, तदपि ततोऽनन्तरसमयान्क्रोधत्रिकमुपशमयन् संज्वलनलोभं वेदयनपगतवेदोदयं तावता कालेन सर्वथोपशमयति । पुरुषवेदक्रोधोदयारूढः क्रोधत्रिकोपशमनायां यावन्तं कालं नयति, पुरुषवेदलोभोदयारूढस्तावति काले क्रोधत्रिकं नपुसकवेदोक्तप्रकारेण सर्वथोपशमयति, नवरं संज्वलनक्रोधस्य समयोनावलिकाद्विकबद्धनूतनदलमनुपशान्तं तिष्ठति । तदानीमेव संज्वलनक्रोधस्य बन्धो व्यवच्छिद्यते,अतः प्रति मानविकमुपशमयितुमारभते मानत्रिकं चोपशमयन् संज्वलनक्रोधस्य बद्धनूतनदलमपि समयोनाऽऽवलिकाद्विककालेन पुरुषवेदोक्तप्रकारेण सर्वथोपशमयति । पुरुषवेदक्रोधोदयप्रतिपन्नो यावति काले समयोनाऽऽवलिकाद्वयबद्धनूतनदलं विमुच्य मानत्रिकमुपशमयति, तावति कान्ले पुरूषवेदसंज्वलनलोभोदयारुढो मानत्रिक नपुंसकवेदोक्तप्रकारेण सर्वथोपशमयति, केवलं संज्वलनमानस्य समयोनावलिकाबद्धनूतनदलमनुपशान्तं तिष्ठति । तदानीं संज्वलनमानस्य बन्धो व्यवच्छिन्नो भवति । ततः प्रभति मायात्रिकमुपशमयन् संज्वलनमानस्य बद्धनूतनदलं समयोनावलिकाद्विकेन कालेन पुरुषवेदोक्तप्रकारेण सर्वथोपशमयति । पुरुषवेदक्रोधप्रतिपनो यावति काले समयोनावलिकाद्वयबद्धदलं वर्जयित्वा मायात्रिकमुपशमयति, तावति काले पुरुषवेदोक्तप्रकारेण लोभोदयारूढो मायात्रिकमुपशमयति, नवरं समयोनावलिकाद्वयबद्धनूतनदलमनुपशान्तं तिष्ठति तदानीमेव मायाया बन्धो व्यवच्छिद्यते । अतः प्रभृति लोभत्रिकमुपशमयितुमारभते पुरुषवेदक्रोधोदयारूढवदपूर्वस्पर्धकानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332