Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text ________________
स्त्रीनपुंसकवेदोदयः ] चारित्रमोहनीयोपशमनाधिकारः
[ २३७ तेन हास्यपटक उपशान्ते समयोनावलिकाद्विकबद्धदलिकं पुरुषवेदारूढवदनुपशान्तं न तिष्ठति, शेषं पुरुषवेदारूढवदवगन्तव्यम् ।
तह' इत्यादि, 'वर्षवरो' नपुसकः 'कमारडे', ति, क्रमारब्धे सति 'तह' ति, एकामुदयस्थिति मुक्त्वा नपुंसकवेदस्त्रीवेदी नपुसकवेदारूढसमकं युगपदुपशमयति । पुरुषवेदारूढस्य यावान् नपुसकवेदस्त्रीवेदोपशमनकालो भवति, तावन्मात्रीं प्रथमस्थिति नपुसकवेदस्य शेषवेदद्विकस्य पुनरावलिकाप्रमाणां विमुच्य नपुसकवेदारूढोऽन्तरकरणं प्रकरोति, अन्तरकरणं च कृत्वा नपुसकवेदं प्रोपशमयति, यावत्पु वेदोदयारूढः सर्वथा नपुसकवेदमुपशमयति, नपुंसकवेदारूढस्तावत्केवलं नपुसकवेदमुपशमयन्नपि न सर्वथोपशमयति, ततः परं स्त्रीवेदमुपशमयितुमुपक्रमत इति नपुसकवेदस्त्रीवेदी द्वावुपशमयन्नपुसकवेदसत्कप्रथमस्थितेश्वरमसमयपर्यन्तमुपशमयति, चरमसमये द्वावपि वेदौ सर्वथोपशम्येते । .. तदानीं पुरुषवेदस्य स्थितिबन्धाः संख्येयसहस्रवार्षिकः संभवति, ततोऽनन्तरसमये नपुसकवेदस्योदयो व्यवच्छिन्नो भवति, पुरुषवेदस्य च बन्धोऽपगच्छति । ततः प्रभति पुवेदहास्यादिषट्कलमणसप्तप्रकृतीयुगपदुपशमयितुभारभते युगपच्च सर्वथोपशमयति । उक्तं च कर्मप्रकृतिचूर्णी-"तदो अवेदो सत्तकम्माणि उवसामेदि । तुल्ला च सत्तण्ड पि कम्माणमुपसमणा।" अत्राऽपि हास्यपदक उपशान्ते पुरुषवेदस्य समयोनावलिकाद्वयबद्धनूतनदलिकमनुपशान्तं न तिष्ठति स्त्रीवेदोदयारूढवत् । शेषं सर्व पुरुषवेदारूढप्रकारेणाऽवगन्तव्यम् । इत्थं संज्वलन क्रोधोदयेनाऽऽरूढस्याऽऽरोहणाऽवरोहणप्रक्रिया दर्शिता।
संप्रति संज्वलनमानोदयेन संज्वलनमायोदयेन संज्वलनलोभोदयेन चोपशमश्रेणिमारूढानामारोहणाऽवरोहणप्रक्रियाविशेषो भण्यते । संज्वलनमानोदयेनारूढस्याऽऽरोहणक्रियायामयं विशेषः
___ यदा तु पुरुषवेदसंज्वलनमानोदयेनोपशमश्रेणि प्रतिपद्यते, तदा संज्वलनक्रोधोदयारूढस्य यावती संज्वलनक्रोधस्याऽन्तमुहर्तप्रमाणा संज्वलनमानस्य चाऽन्तमुहूर्तप्रमाणा समुदिता प्रथमस्थितिर्भवति, तावती केवलस्य संज्वलनमानस्य प्रथमस्थितिं करोति संज्वलनक्रोधस्य चोदयाऽभावेन तत्प्रथमस्थितिरावलिकामात्री क्रियते । पुरुषवेदस्य चरमसमयं यावत्क्रोधोदयारूढवदवगन्तव्यम् । पुरुषवेदोदयचरमसमये हास्यषट्कं सर्वथोपशम्यते पुरुषवेदस्य समयोनावलिकाद्वयनूतनबद्धदलिकं वर्जयित्वा सर्व पुरुषवेदस्य दलिकमुपशम्यते । समयोनावलिकाद्विकाऽभिनवबद्धदलं तावता कालेनाऽवेदको मानमनुभवन्नप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनक्रोत्रिकं चोपशमयन् पुरुषवेदोक्तप्रकारेण सर्वथोपशमयति । अवेदकप्रथमसमयात्संज्वलनमानमनुभवन्पुरुषवेदोक्तप्रकारेण क्रोधत्रिकमुपशमयितुमुपक्रमते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332