Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text ________________
[ २३५
प्रतिपाते करण
चारित्रमोहोपशमनाधिकारः उवसमसम्मत्तद्धा अंतो श्राउखया धुवं देवो । तिसु श्राउगेसु बद्धसु जेण सेढिं न श्रारुहई ॥६३||
उपशमसम्यक्त्वाद्धान्तरायुःक्षयाद्ध्वं देवः ।
त्रिष्वायुष्केषु बद्धेषु येन श्रेणि नारोहति ॥६३।। ओपशमिकसम्यक्त्वाऽद्धाया अन्तर्मध्ये वर्तमानो यदि कश्चिदायुःक्षयात्कालं करोति, तर्हि स ध्रुवमवश्यं देवो भवति । किश्च सास्वादनं गतः सन्नपि यदि कालं करोति, तथाऽपि देव एव भवति, किं कारणमिति चेद् ! उच्यते, येन यस्मात्कारणावायुर्वर्जेषु शेषेषु विष्वायुष्वन्यतमा. ऽऽयुषि बद्ध श्रेणिं नाऽऽरोहति, तस्मत् श्रेणिस्थितः पतन् वा कालं कृत्वा देव एव भवति । अबद्धायुष्कस्तु कालमेव न करोति । उक्तं च कमप्रकृतिचूर्णी-"जई सासायणो कालं करोति, सो वि णियमा देवो भवति, किं कारणम् ? भन्नति-तिसु आउगेसु बढेसु जम्हा उवसामगो सेढीते अणुरुहो भवति तम्हा सासायणो वि देवलोगंजाति।" इति । प्रतिपततः करणान्युदयस्थित्यादिकं कथं प्रवर्तन्त इत्यतः प्राह
उग्घाडियाणि करणाणि उदयठिइमाइगं इयरतुल्लं । एगभवे दुक्खुत्तो चरित्तमोहं उखसमेज्जा ॥६४॥ उद्घाटितानी करणाणि उदयस्थित्या दिक मितरतुल्यम् । एक भवे द्विकृत्वश्चारित्रमोहमुपशमयति
॥६४।। इति पदसंस्कारः "उग्घाडियाणि" त्त, "करणाणि" ति, बन्धनसक्रमणादीनि करणान्युपशमश्रेणि समारोहतो येन क्रमेण यानि यानि व्यवच्छिद्यन्ते तेनैव क्रमेण श्रेणितः प्रतिपततस्तानि तान्युद्घाटितानि भवन्ति प्रवर्तन्न इत्यर्थः । तथोदयस्थित्यादिकमुदयस्थितिबन्धादिकमितरतुल्यमारोहकतुल्यम्, येन क्रमेणाऽऽरोहकस्योदयस्थित्यादिकं व्यवच्छिद्यते, तेनैव क्रमेण प्रतिपातुकस्य तत्प्रवृत्तिरित्यर्थः । एतत्सर्वं विस्तरतः प्रसंगतः प्रागुक्तम् ।
नन्वेकस्मिञ्जन्मनि जन्तुः कतिकृत्वोपशमश्रेणि समारोहतीति शङ्का परिहतुकाम आह"एगभवे" इत्यादि एकस्मिन्भवे द्वौ वारौ चारित्रमोहनीयमुपशमयति परिणामविशेषेण द्विरुपशश्रेणिं समारोढुं शक्नोति, न तु तृतीयमपि वारमित्यर्थः, यश्च द्वौ वारावुपशमश्रेणिप्रतिपद्यते, स तस्मिन्भवे क्षपकश्रेणिं न प्रतिपद्यते । यस्त्वेकवारमुपशमनं जिं समारोहति, स तस्मिन्भवे क्षपकोणिमपि समारोहेदपीति मन्यन्ते कार्मग्रन्थिकाः,सैद्धान्तिकमतेन त्वेकस्मिन्मवे य उपशमश्रेणिमारोहेत , स झपकणि नारोहेत् । इदमुक्तं भवति-एकस्मिन्भवे यद्यपि द्विरुपश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332