Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 292
________________ २३४ ] उपशमनाकरणम् [ गाथा ६२ सम्यक्त्वेन सह प्रतिपततः यथाप्रवृत्तकरणकालः । उक्तं च कषायप्राभृतचूर्णी - "उवसामगस्स पढमसमय अपुव्वकरण पहुडि जाव पडिवदमोणगस्स चरिमसमयअपुव्वकरणोति तदो एत्तो संखेज गुणकालं पडिणियत्तो अधापवत्तकरणेण उवसमसम्मत्तमणुपालेदि ।” इति । भावार्थः पुनरयम् - यद्यप्यारोहकाऽपूर्वकरणप्रथमसमयादारभ्य प्रतिपातुकाऽपूर्वकरण चरमसमयपर्यन्तं विद्यमानकालतो यथाप्रवृत्तकरणकालस्य संख्यातगुणत्वे न कश्चिदोषः, तथाऽपि यथाप्रवृत्तकरणकालेन स्वभावसंयतो विवक्षितव्यः । यथाप्रवृत्त करणं व्यतिक्रम्य प्रतिपातुकः प्रमत्तसंयत गुणस्थानकं प्रतिपद्यते ततः परं यत्करोति तद्वयाजिहीर्षु राह किच्चा पमत्ततदियरठाणे परिवत्तिवहुसहराणि । हिट्टिला गांतरदुगं श्रासाणं वा वि गच्छेज्जा ॥ ६२ ॥ -- प्रतिपातुकः प्रमत्तगुणस्थानके विश्राम्यति, यथा समुद्रतरणश्रान्तपुरुषस्तदे यद्वा सङ्ग्रा - मागणविनिर्गतपुरुषो युद्धाङ्गणबहिर्भूमौ विश्राम्यति, ततः परं 'पमत्ततदियर ठाणे' इति, प्रमत्ताऽप्रमत्तसंयत गुणस्थानकयोः प्रभूतानि सहस्राणि यावत्परावृत्तीः कृत्वा प्रतिपातुकः 'हिडिल्लाणंतरदुगं' त्ति, अधस्तनगुणस्थानकद्विकं देशविरताऽविरतलक्षणं गच्छति कोऽपि देशविरतिं प्रतिपद्यते कश्चिच्चतुर्थगुणस्थानकं लभत इत्यर्थः । तत्र यदि देशविरतिं प्रतिपद्यते, तहिं गुणश्रेण्यायामममित्रर्ध्य गुणश्रेणि करोति, यत एकादशगुणश्रेणिषू तरोत्तरगुणश्रेण्यायामः संख्यातगुणहीनो भवति । कृत्वा प्रमत्ततदितरस्थानयोः परिवृत्ती बहु सहस्राणि । प्रधस्तादनन्तरद्विकमासादनं वाऽपि गच्छेत् ।। ६२ ।। इति पदसंस्कार: "आसान" मित्यादि, 5 कश्विदौपशमिकसम्यक्त्वाऽद्धाया उत्कृष्टतः षट्स्वावलिकासु शेषासु जघन्यतः समयमात्रे शेषे सास्वादनभावमपि भजेत् सास्वादन गुणस्थानकं प्राप्नुयादित्यर्थः । श्रेणिगतोपशमिकसम्यक्त्वकाले म्रियमाणः कस्यां गतावुत्पद्यत इति शङ्कापरिहारार्थमाह फ्र उपशमश्रेणितः पतन् केषाञ्चिन्मतेन सास्वादनं गच्छति केषाखिमतेन पुनर्न प्राप्नोतीति लब्धिसारग्रन्यकाराः । अक्षराणि त्वेत्रम् Jain Education International तःससमत्तद्धाए असज मं देससंजमं वाऽपि I गच्छेज्जावलिछक्के से से सासणगुणं वापि ॥३४८ ॥ जदि मरदि सासणो सो णिरयतिरिक्ख णरं ग गच्छादि । णियमा देवं गच्छदि जइवसहमुणिदवयणेण ।।३४६ ॥ उवसम सेढीदो पुरण ओदिष्णो सासणं ण पाठणदि । भूदबलिणाहणिम्मल सुत्तस्स फुडो देसेण ।। ३५० ।। For Private & Personal Use Only . www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332