Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 270
________________ उपशमनाकरणम २१२ ] [ गाथा ५६-५७ गुणस्थानकसंख्येयतमभागप्रमाण उदयसमयाद्यावत्यायामेऽसंख्येयगुणकारेण निक्षिपति, तद्वितीयसमयेऽवस्थितपरिणामात्तावदेव दलमादायोदयसमयात्तावत्येवाऽऽयामेऽसंख्येयगुणकारेण प्रक्षिपति, एवं पूर्वपूर्वसमयत उत्तरोत्तरसमये त' वदेव दलं गृहीत्वा तावत्येवाऽऽयामे निक्षिपति, उपशान्तमोहगुणस्थानकपूर्वपूर्वसमयेषु क्षीणेषु सत्सु गुणश्रेणिशिर उपयु परि वर्धत इत्यर्थः । तेनोपशान्तमोहगुणस्थानकपर्यन्तं गुणश्रेणिः कालाऽपेक्षया दलाऽपेक्षया चाऽवस्थिता भवति, अवस्थितपरिणामरूपहेतोरेकरूपत्वात । कथमेतदवगन्तव्यमिति चेद् ? उच्यते। उपशान्ताऽद्धायां स्थितोऽवस्थितपरिणामो भवति । उक्तं च कर्मप्रकृतिचूर्णी "सब्वं कालं सव्वं उवसतद्धं अवहितो परिणामो भवति" इति । न चोपशान्तमोहगुणस्थानके वर्तमानो जन्तुरवस्थितपरिणामः कथं भवतीति वाच्यम् . यतो मोहनीयकर्मण उदयेन परिणामस्य संक्लिष्टत्वं वा विशुद्धत्वं वा भवति, अत्र तु मोहनीयकर्मणः सर्वथोदयाऽभावेनऽवस्थिता एव परिणामा विद्यन्ते । सूक्ष्मसंपरायचरमसमये गुणश्रेण्यर्थ याबद्दलं गृह्णाति, ततोऽसंख्येयगुणमुपशान्तमोहगुण. स्थानकप्रथमसमये गुणश्रेण्यर्थ गृह्णाति, यतश्चारित्रमोहनीयोपशमनातो विशुद्धराधिक्येनोपशान्तमोहगुणस्थानके दलिकाऽपेक्षया निर्जराऽसंख्येयगुणा भवति, कषायोदयाभावजघन्य यथारख्यातचारित्रमप्यस्मिन्गुणस्थानके जन्तुरवाप्नोति । उस्कृष्टप्रदेशोदय :- यदोपशान्त मोहगुणस्थानकसमयाननुभवजन्तुम्तद्गुणस्थानकप्रथमसमयकृतगुणश्रेणिशिरोनिषेकमुदयेऽवाप्नोति, तदा स ज्ञानावरणादीनामुत्कृष्टप्रदेशोदयमनुभवति । न चाऽयोगिगुणस्थानकचरमसमय उत्कृष्टप्रदेशोदयसंभवादत्रोत्कृष्टप्रदेशोदयः कथमुच्यते, इति वाच्यम् , उपशमश्रेण्यपेक्षयात्रोत्कृष्ट प्रदेशोदयम्योक्तत्वात् । ननूपशमश्रेण्यामत्रोत्कृष्टप्रदेशोदयो भवतीति कथमेतदवगन्तव्यमिति चेद् । उच्यते-उपशान्तमोहगुणस्थानकस्य प्रथमममयकृतगुणश्रेणिनिक्षेपस्य चरमनिषेकेण प्राप्यमाणं यद्दलं यच्च द्वितीयसमयकृतगुणश्रेणिनिक्षेपस्य द्विचरिमनिषेकेण प्राप्यमाणं भवति तथा यत्ततीयसमयकृतगुणश्रेणिनिक्षेपस्य त्रिचरमनिषेकेण प्राप्यमाण मेवं तावद्वक्तव्यं यावदुदयसमयकृतगुणश्रेणिनिक्षेपस्य प्रथमनिषेकेण प्राप्यमाणम् । एतत्सर्व दल तस्मिन्नुदयसमये संग्रहीतं भवति, अत उपशान्तमोगुणस्थानके गुणश्रेण्यर्थमेकममयेन याबद्दलमुत्किरति, तावद्दलं गुणश्रेण्या प्राप्त तथा सत्तागतमन्यद्यद्गोपुच्छाकारेण पूर्व सत्त्वमासीत् , एतत्सर्वदलं तस्मिन्नुदयममय उदेतीति कृत्वोत्कृष्ट प्रदेशोदयो भवति । न च प्रथमसमयकृतगुणश्रेणिशीर्षस्योपरितनसमयेष्वपि गुणश्रेण्यर्थमेकसमयेन यावद्दलंमुत्किरति तावद्दलं संभवति, ततः कथं प्रथमसमयकृतगुणश्रेणिशीर्षसमय एवोत्कृष्टप्रदेशोदय उच्यत इति वाच्यम्, उपरितनसमयेषु गुणश्रेण्या प्राप्यमाणदलिकस्य समानत्वेऽपि प्रथमसमय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332