Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 279
________________ प्रतिपातसूक्ष्मसंपराये किट्ट रुदयः ] चारित्रमोहोपशमनाधिकारः [ २२१ सूक्ष्मसंपरायप्रथमसमये चरमसमयकृतकीट्टीनां जघन्यकिट्टरारभ्याऽसंख्येयभागप्रमाणाः किट्टीविमुच्य प्रथमसमयकृतकिट्टीनां चोत्कृष्टकिरारभ्याऽसंख्येयभागमात्री: किट्टीः परित्यज्य शेषाः स्वरूपेणोदयन्ति, सूक्ष्मसंपरायस्य प्रथमसमये यावत्यः किट्टय उदयन्ति, ततो विशेषाधिकाः किट्टयस्तद्वितीयसमये वेद्यन्ते, यथोपशमश्रं णिमारोहन् पूर्वपूर्वसमयतः प्रतिसमयमसंख्येषभागमात्रास्तीवाऽनुभागा अमुकाः किट्टीर्विमुच्याऽसंख्येयभागमात्राश्च मन्दानु. भागाः किट्टीवाति स्म । तथोपशमश्रेणितः प्रतिपतनयं विपरीतमाचष्टे । किमुक्तं भवति ? असंख्येय भागमात्रीर्मन्दानुभागा किट्टीः परित्यज्याऽसंख्येयभागमात्रास्तीवाऽनुभागाः किट्टीर्गलाति, विमुच्यमान किट्टितो विशेषाधिकार किट्टी हाति,तेन पूर्वपूर्वसमयत उत्तरोत्तरसमय उदये विशेषाधिकाः किट्टयः प्राप्यन्ते । + उक्तं च कषायप्राभृतचूर्णी-"पढम. समए उदिण्णाओ थोवाओ बिदिघसमये उदिण्णाओ किटोओ विसेसाहियाओ सव्वसुहमसंपराइयडाए विसेसाहियघडीए किहोणमुदये" इति । उदयेऽनुभागस्तु पूर्वपूर्वतः प्रतिसम पमनन्तगुणो विद्यते । न चोदये पूर्वपूर्वतः किट्टयो विशेषाधिका भवन्ति, अनुभागो. ऽनन्नगुणः कथमुदये भवति ? इति वाच्यं विवक्षितसमय उदयमाना उत्कृष्टकिरनन्तरमुदयार्थ गृह्यमाणोपरितनकिटिषु प्रथमकिट्टरप्यनन्तगुणरसोपेतत्वादेवमनेन क्रमेण तावद्वक्तव्यम् , यावसूक्ष्मलोभस्य प्रथमस्थितेरावलिकाऽवशिष्यते,तदानीं सूक्ष्मसंपरायकालः पूर्णो भवति, ततोऽनन्तरसमये तदानीमनिवृत्तिकरणबादरसंपरायगुणस्थानकं प्रविशति, अतस्तत्स्वरूपं विविच्यते अनिवृत्ति करणवादग्संपरायगुणस्थानकप्रथमसमय इमे पदार्थाः प्रवर्तन्ते (१) लोभत्रिकस्य बादरलोभवेदककालतः किश्चिदधिकायामाऽवस्थिता पूर्ववद्गुणश्रीणिविरच्यते । (२) शेषकर्मणां गलिताऽवशेषगुणश्रेणिः पूर्ववत्प्रवर्तते । (३) मुश्मलोभम्याऽवशिष्टाऽऽवलिका वादरलोभे सङ्क्रमय्याऽनुभवति । + टिप्पणो-एवं लब्धिसारेऽप्युक्तम-.अवरोहकसूक्ष्मसंपरायप्रथमसमय उदयनिषेककृष्टीनां पल्या. संख्यातखण्डितबहुमागमात्रा मध्यमकृष्टय उदये गच्छन्ति। तदेक भागस्य पुनरसंख्यतभागा द्विपञ्चमभागमात्राः कृष्टय प्रादिकृष्टे रारभ्याऽनुवया उपरि च तस्त्रिपञ्चमभागमात्र्य: कृष्टयोऽग्रकृष्टेरार. म्याऽनुदयास्तासामाद्यन्तकृष्टीनां स्वस्वरूपं परित्यज्य मध्यमकृष्टिस्वरूपेण परिणम्योदयो भवती. त्यर्थः पुनद्वितीयसमय प्रादिकृष्टीनां पल्याऽसंख्यातकभागमात्रीः कृष्टोगहीत्वा मध्यमकृष्टय उदयमा. गच्छन्ति । तत्र ऋणात्.."अस्माद्धनमिदम भ्यधिकमिति धतार्णया विवरे शेषप्रमाणेन प्रथमसमयोदयकृष्टिभ्यो द्वितीयसमयोदयकृष्टयो विशेषाधिकाः । एवं तृतीयादिममयेष्वपि तच्चरमसमयपर्यन्तं विशेषाधिकाः कृष्टय सदयमागच्छन्ति। अत एव प्रतिसमयमनन्तगुणानुमागोदयः कृष्टीनां ज्ञातव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332