________________
प्रतिपातसूक्ष्मसंपराये किट्ट रुदयः ] चारित्रमोहोपशमनाधिकारः
[ २२१ सूक्ष्मसंपरायप्रथमसमये चरमसमयकृतकीट्टीनां जघन्यकिट्टरारभ्याऽसंख्येयभागप्रमाणाः किट्टीविमुच्य प्रथमसमयकृतकिट्टीनां चोत्कृष्टकिरारभ्याऽसंख्येयभागमात्री: किट्टीः परित्यज्य शेषाः स्वरूपेणोदयन्ति, सूक्ष्मसंपरायस्य प्रथमसमये यावत्यः किट्टय उदयन्ति, ततो विशेषाधिकाः किट्टयस्तद्वितीयसमये वेद्यन्ते, यथोपशमश्रं णिमारोहन् पूर्वपूर्वसमयतः प्रतिसमयमसंख्येषभागमात्रास्तीवाऽनुभागा अमुकाः किट्टीर्विमुच्याऽसंख्येयभागमात्राश्च मन्दानु. भागाः किट्टीवाति स्म । तथोपशमश्रेणितः प्रतिपतनयं विपरीतमाचष्टे । किमुक्तं भवति ? असंख्येय भागमात्रीर्मन्दानुभागा किट्टीः परित्यज्याऽसंख्येयभागमात्रास्तीवाऽनुभागाः किट्टीर्गलाति, विमुच्यमान किट्टितो विशेषाधिकार किट्टी हाति,तेन पूर्वपूर्वसमयत उत्तरोत्तरसमय उदये विशेषाधिकाः किट्टयः प्राप्यन्ते । + उक्तं च कषायप्राभृतचूर्णी-"पढम. समए उदिण्णाओ थोवाओ बिदिघसमये उदिण्णाओ किटोओ विसेसाहियाओ सव्वसुहमसंपराइयडाए विसेसाहियघडीए किहोणमुदये" इति । उदयेऽनुभागस्तु पूर्वपूर्वतः प्रतिसम पमनन्तगुणो विद्यते । न चोदये पूर्वपूर्वतः किट्टयो विशेषाधिका भवन्ति, अनुभागो. ऽनन्नगुणः कथमुदये भवति ? इति वाच्यं विवक्षितसमय उदयमाना उत्कृष्टकिरनन्तरमुदयार्थ गृह्यमाणोपरितनकिटिषु प्रथमकिट्टरप्यनन्तगुणरसोपेतत्वादेवमनेन क्रमेण तावद्वक्तव्यम् , यावसूक्ष्मलोभस्य प्रथमस्थितेरावलिकाऽवशिष्यते,तदानीं सूक्ष्मसंपरायकालः पूर्णो भवति, ततोऽनन्तरसमये तदानीमनिवृत्तिकरणबादरसंपरायगुणस्थानकं प्रविशति, अतस्तत्स्वरूपं विविच्यते
अनिवृत्ति करणवादग्संपरायगुणस्थानकप्रथमसमय इमे पदार्थाः प्रवर्तन्ते
(१) लोभत्रिकस्य बादरलोभवेदककालतः किश्चिदधिकायामाऽवस्थिता पूर्ववद्गुणश्रीणिविरच्यते ।
(२) शेषकर्मणां गलिताऽवशेषगुणश्रेणिः पूर्ववत्प्रवर्तते ।
(३) मुश्मलोभम्याऽवशिष्टाऽऽवलिका वादरलोभे सङ्क्रमय्याऽनुभवति । + टिप्पणो-एवं लब्धिसारेऽप्युक्तम-.अवरोहकसूक्ष्मसंपरायप्रथमसमय उदयनिषेककृष्टीनां पल्या. संख्यातखण्डितबहुमागमात्रा मध्यमकृष्टय उदये गच्छन्ति। तदेक भागस्य पुनरसंख्यतभागा द्विपञ्चमभागमात्राः कृष्टय प्रादिकृष्टे रारभ्याऽनुवया उपरि च तस्त्रिपञ्चमभागमात्र्य: कृष्टयोऽग्रकृष्टेरार. म्याऽनुदयास्तासामाद्यन्तकृष्टीनां स्वस्वरूपं परित्यज्य मध्यमकृष्टिस्वरूपेण परिणम्योदयो भवती. त्यर्थः पुनद्वितीयसमय प्रादिकृष्टीनां पल्याऽसंख्यातकभागमात्रीः कृष्टोगहीत्वा मध्यमकृष्टय उदयमा. गच्छन्ति । तत्र ऋणात्.."अस्माद्धनमिदम भ्यधिकमिति धतार्णया विवरे शेषप्रमाणेन प्रथमसमयोदयकृष्टिभ्यो द्वितीयसमयोदयकृष्टयो विशेषाधिकाः । एवं तृतीयादिममयेष्वपि तच्चरमसमयपर्यन्तं विशेषाधिकाः कृष्टय सदयमागच्छन्ति। अत एव प्रतिसमयमनन्तगुणानुमागोदयः कृष्टीनां ज्ञातव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org