SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २२२ ] [ गाथा ६१ (४) अनिवृत्तिकरणप्रथमसमय एवाऽऽवलिकावर्जशेष सर्व विट्टयो नष्टाः, उक्तं च कषायप्रभृतचूण "ताहे चेव फद्दयगढ़ लोभं वेददि किओ सव्वाओ ट्ठाओ वरि जाओ उदयावलियन्तराओ ताओ त्थिबुक्कसंकमेण फइएस विपच्चि - हिंति | इति । " (५) संज्वलन लोभस्य बन्ध आरभ्यते, अतः संज्वलनलो मेऽप्रत्याख्यानप्रत्याख्यानावरणलोभद्विकं सङ्क्रमयति । (६) तदानीं स्थितिबन्धश्च स्थम् -संज्वलन लोभस्याऽन्तमुहूर्त प्रमाणः स्थितिबन्धः, ज्ञानाचरण दर्शनावरणान्तरायाणामहोरात्र पृथक्त्वम्, नामगोत्र वेदनीयानां संख्यातवर्षसहस्रमात्रो भवति । उक्तं च कषायप्राभृतचूर्णो "एदम्हि पुणो द्विदिबंधे से अण्णो वेदणीयणामगोदाणं द्विदिबंधो सो संखेज्जवस्ससहस्सा णि । तिन्हं घातिक्रम्माणं द्विदिबंधो अहोरत्त पुधत्तिगो लोभ संजलणस्स द्विदिबंधो पुव्वबंधादो विसेसाहियाओ ।" इति । उपशमनाकरणम् यथा श्रेणिमारोहतो लोभवेदकाऽद्धायास्त्रयो विभागाः क्रियन्ते स्म तथैव प्रतिपततोऽपि लोभवेदकाद्धायास्त्रयो विभागाः क्रियन्ते तत्र प्रथमविभागे सूक्ष्मलोभवेदकाद्धा, द्वितीयविभागे बादरसंज्वलनलोभवेदकाऽद्धायाः प्रथमाऽर्धः, तृतीयविभागे बादरलोभवेदकाऽद्धाया द्वितीयाऽर्धः, तत्राऽयं विशेष:-आरोहकस्य लोभवेदककालात्प्रतिपततो लोभवेदककालः किञ्चिन्न्यूनो ज्ञातव्यः एवं सर्वत्राऽऽरोहकस्य कालात्प्रतिपातकस्य मायादिवेदककालेषु किञ्चिन्न्यूनता द्रष्टव्या । तत्र लोभवेदकाद्वायाद्वितीयविभागस्य संख्येयतमे भागे गते बादरसंज्वलनलोभवेदकाऽद्धाप्रथमाऽर्धस्य संख्येयतमे भागे वेदित इत्यर्थः, संज्वलन लोमस्य स्थितिबन्धो मुहूर्त पृथक्त्वमात्रः, ज्ञानावरणदर्शनावरणाऽन्तरायाणां पुनरहोरात्र पृथक्त्वतो वर्ष महस्रपृथक्त्वमितो नामगोत्र वेदनीयानां संख्यातसहस्रवर्षप्रमाणः । उक्तं च कषायप्राभृतचूर्णी - "लाभवेदगडाए विदियरस तिभागस्स संखेज्जदिभागं गंतृण मोहणीयस्स डिदिबंधो मुहुत्तपुधन्तं णामगोदवेयणीयाणं द्वितिबंधो संखेज्ञाणि वस्ससहस्साणि, तिन्हं घातिकम्माणं द्विदिबंधो अहोरत्तपुत्तिगादो हिदिबंधादो वस्सेसहस्सपुधत्तिगो द्वितिबंधो जादो ।" इति । यद्यप्यघातिकर्मणां स्थितिबन्धस्य संख्यातगुणवृद्धिरनिवृत्तिकरण द्वितीय स्थितिबन्धाजाता, किन्तु घातित्रयस्य संख्यातगुणवृद्धिरितः प्रभृति जाता, इत्थं षण्णामपि कर्मणां स्थितिबन्धवृद्धेः संख्यातगुणत्वं प्रवर्तते । तत्राऽयं विशेषः - घातित्रयस्य स्थितिबन्धादघातित्रयस्य स्थितिबन्धः संख्यातगुणो भवति । एवं स्थितिबन्ध महस्रं षु गतेषु बादर संज्वलन लोभवेदकाऽद्धायाः प्रथमाऽस्याऽवशिष्ट संख्ये बहु भागांस्तथा तद् द्वितीयार्धमनुभूय मायायाः प्रथमस्थितिं करोति वेदयति च | मायावेदकाऽडा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy