________________
उपशमनाकरणम
२२० ]
[ गाथा ६१ 卐 कषाय-प्राभूतचूर्णिकारमतेनोदयसमयादेवाऽसंख्येयगुणकारेण प्रक्षिपति ।
(३) सूक्ष्मलोमस्य गुणश्रेणिः सूक्ष्मलोभवेदकाऽद्धातः किश्चिदधिकाऽऽयामा भवति, सा चाऽवस्थिता भवति । (४) अप्रत्याख्यानावरणप्रत्याख्यानावरणलोभद्विकस्य गुणश्रोणिरुदयावलिकाया उपरितननिषेकाद्भवति साऽप्यवस्थिता भवति ।
* (५) शेषकर्मणां गुणश्रेणिः सूक्ष्मसंपरायाऽनिवृत्तिकरणाऽपूर्वकरणगुणस्थानकत्रयकालादधिकायामा क्रियते, सा च गुणश्रेणिर्गलिताऽवशेषमात्री भवति ।
(६) ज्ञानावरणदर्शनावरणाऽन्तरायाणां स्थितिबन्धस्याऽन्तमुहृतप्रमाणत्वेऽप्युपशमश्रेणि प्रतिपद्यमानतो द्विगुणत्वम् । नामगोत्रयोात्रिंशदन्तमुहूर्तप्रमाणः स्थितिबन्धो वेदनीयस्यचाऽष्टचत्वारिंशमुहूर्तमात्रः।।
(७) आनुपूा सङ्क्रमस्य यो नियमः प्रागासीत् , स इदानीं व्यवच्छिद्यते । ___(6) आरोहकस्याऽशुभानां योऽनुभागवन्ध आसीत् , ततोऽनन्तगुणवृद्धः श्रेणितः प्रतिपततो भवति, आरोहकस्य शुभानां प्रकृतीनां योऽनुभागबन्धो भवति स्म, ततोऽनन्तगुणहीनः श्रोणितः प्रतिपततो भवति ।
__(8) येनैव क्रमेण स्थितिबन्धादीन कुर्वन्नारूढः, तेनैव क्रमेण पश्चानुपूा स्थितिबन्धादीन कुर्वन् प्रतिपतति, ततोऽनन्तरसमये सूक्ष्मसंपरायस्य द्वितीयसमय इत्यर्थः, स्थितिबन्धः तावान्नेव भवति, रसबन्धस्त्वशुभानां प्रकृतीनामनन्तगुणवृद्धः शुभाना चाऽनन्तगुणहीनो भवति, एवं पूर्वपूर्वसमयत उत्तरोत्तरसमये गुणश्रेण्यर्थ दलं च पूर्वतोऽसंख्येयगुणहीनंगहीन्वोत्तरोत्तरनिषेकप्वसंख्येयगुणकारेण श्रेण्या विरचयति एवं प्रतिसमयमनन्तगुणसंक्लेशस्य सत्त्वात्पूर्व पूर्वत उत्तरोत्तरसमयेऽसंख्येयगुणहीनं दलिकं गृहीत्वोत्तरोत्तरनिषेकेष्वसंख्येयगुणकारेण श्रेण्या रचयति ।
जटिप्पणी-तथैव लब्धिसारेऽपि तत्र तावदुदयवतः संज्वलनलोभस्य द्वितीयस्थितौ स्थितं कृष्टिगतं द्रव्यमपकृष्य पल्यासंख्यातमागखण्डितैकभागमात्रमुदयसमयादारभ्य गुणश्रेण्यायामचरमसमयपर्यन्तं संख्यातगुणितक्रमेण निक्षिप्य पुनस्तबहुभागद्रव्यं गुणश्रेणिशीर्षस्यान्त रायाममुल्लडघ्य द्वितीयस्थिती दिवड्डगुणहानि माजिद इत्यादिना विशेषहीनक्रमेण निक्षिपेत् । उदयरहितयोरप्रत्याख्यानप्रत्याख्यानावरणलोभयोद्वितीयस्थितौ स्थितं द्रव्यमपकृष्योदयावलिबाह्यप्रथमसमयादारभ्य गुणश्रेण्यायामचरम. समयपर्यन्तमसंख्यातगुणितक्रमेण तदुपर्यन्तराऽऽयाममुल्लङघ्य द्वितीयस्थिती पूर्ववद्विशेषहौनक्रमेण निक्षपेत् एवमुत्तरत्राऽप्युदयाऽनुदयवतोगुणहानिगिनिक्षेपक्रमो वेदितव्यः।
लब्धिसारे शेषकर्मणां गुणश्रणिलिकनिक्षेप इत्थं प्ररूपितः-पुनःषण्णामायुर्मोहवजितानां ज्ञानावारणादिकमणां वलिकमपकृष्य पल्याऽसंख्यातभागेन खण्डयित्वा तदेक भागमुदयावल्यां निक्षिप्य बहुभागं गुणश्रेण्यायामेऽवरोहकसूक्ष्मसपरायाऽनिवृत्त्यपूर्वकरणकालेभ्यो विशेषाऽधिकमात्र गलितावशेपेऽसंख्यातगुणितक्रमेण निक्षिप्याऽवशिष्टबहुभागोपरितनस्थिती पूर्ववद्विशेषहीनक्रमेण निक्षिपेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org