Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text ________________
२२२ ]
[ गाथा ६१
(४) अनिवृत्तिकरणप्रथमसमय एवाऽऽवलिकावर्जशेष सर्व विट्टयो नष्टाः, उक्तं च कषायप्रभृतचूण "ताहे चेव फद्दयगढ़ लोभं वेददि किओ सव्वाओ ट्ठाओ वरि जाओ उदयावलियन्तराओ ताओ त्थिबुक्कसंकमेण फइएस विपच्चि - हिंति | इति । "
(५) संज्वलन लोभस्य बन्ध आरभ्यते, अतः संज्वलनलो मेऽप्रत्याख्यानप्रत्याख्यानावरणलोभद्विकं सङ्क्रमयति ।
(६) तदानीं स्थितिबन्धश्च स्थम् -संज्वलन लोभस्याऽन्तमुहूर्त प्रमाणः स्थितिबन्धः, ज्ञानाचरण दर्शनावरणान्तरायाणामहोरात्र पृथक्त्वम्, नामगोत्र वेदनीयानां संख्यातवर्षसहस्रमात्रो भवति । उक्तं च कषायप्राभृतचूर्णो "एदम्हि पुणो द्विदिबंधे से अण्णो वेदणीयणामगोदाणं द्विदिबंधो सो संखेज्जवस्ससहस्सा णि । तिन्हं घातिक्रम्माणं द्विदिबंधो अहोरत्त पुधत्तिगो लोभ संजलणस्स द्विदिबंधो पुव्वबंधादो विसेसाहियाओ ।" इति ।
उपशमनाकरणम्
यथा श्रेणिमारोहतो लोभवेदकाऽद्धायास्त्रयो विभागाः क्रियन्ते स्म तथैव प्रतिपततोऽपि लोभवेदकाद्धायास्त्रयो विभागाः क्रियन्ते तत्र प्रथमविभागे सूक्ष्मलोभवेदकाद्धा, द्वितीयविभागे बादरसंज्वलनलोभवेदकाऽद्धायाः प्रथमाऽर्धः, तृतीयविभागे बादरलोभवेदकाऽद्धाया द्वितीयाऽर्धः, तत्राऽयं विशेष:-आरोहकस्य लोभवेदककालात्प्रतिपततो लोभवेदककालः किञ्चिन्न्यूनो ज्ञातव्यः एवं सर्वत्राऽऽरोहकस्य कालात्प्रतिपातकस्य मायादिवेदककालेषु किञ्चिन्न्यूनता द्रष्टव्या । तत्र लोभवेदकाद्वायाद्वितीयविभागस्य संख्येयतमे भागे गते बादरसंज्वलनलोभवेदकाऽद्धाप्रथमाऽर्धस्य संख्येयतमे भागे वेदित इत्यर्थः, संज्वलन लोमस्य स्थितिबन्धो मुहूर्त पृथक्त्वमात्रः, ज्ञानावरणदर्शनावरणाऽन्तरायाणां पुनरहोरात्र पृथक्त्वतो वर्ष महस्रपृथक्त्वमितो नामगोत्र वेदनीयानां संख्यातसहस्रवर्षप्रमाणः । उक्तं च कषायप्राभृतचूर्णी - "लाभवेदगडाए विदियरस तिभागस्स संखेज्जदिभागं गंतृण मोहणीयस्स डिदिबंधो मुहुत्तपुधन्तं णामगोदवेयणीयाणं द्वितिबंधो संखेज्ञाणि वस्ससहस्साणि, तिन्हं घातिकम्माणं द्विदिबंधो अहोरत्तपुत्तिगादो हिदिबंधादो वस्सेसहस्सपुधत्तिगो द्वितिबंधो जादो ।" इति । यद्यप्यघातिकर्मणां स्थितिबन्धस्य संख्यातगुणवृद्धिरनिवृत्तिकरण द्वितीय स्थितिबन्धाजाता, किन्तु घातित्रयस्य संख्यातगुणवृद्धिरितः प्रभृति जाता, इत्थं षण्णामपि कर्मणां स्थितिबन्धवृद्धेः संख्यातगुणत्वं प्रवर्तते । तत्राऽयं विशेषः - घातित्रयस्य स्थितिबन्धादघातित्रयस्य स्थितिबन्धः संख्यातगुणो भवति । एवं स्थितिबन्ध महस्रं षु गतेषु बादर संज्वलन लोभवेदकाऽद्धायाः प्रथमाऽस्याऽवशिष्ट संख्ये बहु भागांस्तथा तद् द्वितीयार्धमनुभूय मायायाः प्रथमस्थितिं करोति वेदयति च | मायावेदकाऽडा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332