Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 286
________________ २२८ ] उपशमनाकरणम् [ गाथा-६१ गुणश्रेणिं करोति बध्यमानपञ्चप्रकृतिषु च विंशतिप्रकृत्यात्मकं सङ्गमस्थानं प्राप्नोति । स्त्रीवेदोपशमनानाशतः सहस्रषु स्थितिबन्धेषु व्रजितेषु नपुसकवेदोऽनुपशान्तो भवति । स्त्रीवेदोपशमनानाशतो यावति काले नपुसकवेद उपशान्तनाशस्तावतः कालस्य संख्येयेषु बहुभागेषु गतेषु ज्ञानावरणदर्शनावरणाऽन्तरायाणां स्थितिबन्धोऽसंख्येयवर्षप्रमाणो भवति । तेनेत: प्रभृति षण्णामपि कर्मणामसंख्येयवर्षमात्रः स्थितिबन्धो भवति, अतः प्रभृति स्थितिबन्धः पूर्वपूर्वतोऽसंख्येयगुणो भवति, नियमस्य प्रागुक्तत्वान्नाऽत्र पुनरभिधीयते । तत्राऽल्पबहुत्वम्मोहनीयस्य स्थितिवन्धः सर्वम्तोकस्ततोऽसंख्येयगुणो ज्ञानावरणदर्शनावरणाऽन्तरायाणाम्, ततोऽप्यसंख्येयगुणो नामगोत्रयोः,ततो वेदनीयस्य विशेषाऽधिकः । उक्तं च कषायप्राभृतचौँ"त्थिवेदे अणुवसंते जाव णसयवेदो उवसंतो एदिस्से अद्धाए संखेज्जेसु भागेसु गदेसु णाणावरणदसणावरणअंतराइयणमसंखेजवस्सिय हिदिबंधो जादो ताधे मोहणीयस्स हितिष धो थोवो तिण्हं घादिकम्माणं हिदिबंधो असंखेजगुणो नामगोदाणं हितिबंधो असंखेजगुणो। वेदणीयस्स हितिबंधो विसेसाहिओ । इति । ततः प्रभूत्येव ज्ञानावरणचतुष्कदर्शनावरणत्रिकाऽन्तरायपश्वकरूपद्वादशदेशघातिप्रकृतीनां द्विस्थाकमनुभागं बध्नाति । इतः प्रागेतासा प्रकृतीनां बन्ध एकस्थानाऽनुभाग आसीत् । सहस्रषु स्थितिबन्धेषु गतेषु नपुसकवेदस्योपशमनाऽपगच्छति । .(१) तदानीमेव द्वितीयस्थितितो दलिकं गहीत्वा नपुसकवेदस्य गलिताऽवशेषां गणश्रेणिमुदयावलिकोपरितननिषेकाच्छेषकर्मरणश्रेण्यायामेन सदृशां करोति । एवं ततः प्रभृति माहनीयस्यैकविंशतिप्रकृतीनां गलिताऽवशेषगुणश्रेणिं करोति । (२) शेषकर्मणां प्रागारब्धा गलिताऽवशेषगुणश्रीण स्तत्रापि प्रवर्तते ।। (३) तदानीमेव बध्यमानपुरुषवेदसंज्वलनक्रामानमायालोभेष्वनानुपूर्व्या चारित्रमोहनीयस्यैकविंशतिप्रकृत्यात्मकं सक्रमस्थानं प्राप्यते । नपुंसकवेदानुपशमनप्रथमसमयात्प्रभृति श्रेणिप्रतिपन्नसत्काऽनिवृत्तिकरणस्याऽन्तरकरणक्रियासमाप्तिचरमसमयपर्यन्तो योऽन्तमुहर्तकालस्तस्य संख्यातबहुभागेषु गतेषु मोहनीयस्याऽसंख्येयवार्षिक: स्थितिबन्धो द्विस्थानकश्चाऽनुभाग उदयमागच्छति । इदमुक्तं भवतिश्रेणितः प्रतिपातकोऽन्तरं न करोति, अतोऽन्तरकरणसमाप्तिचरमसमयोऽपि तेन नावाप्यते, .लब्धिसारेऽत्र नपुंसकवेदस्याऽन्तरपूरणं प्राग्वदभिहितम् । अक्षराणि त्वेवम्"तत्प्रथमसमये नपुंसकवेदद्रव्यमपकृष्येतरकर्मगलिताऽवशेषगुणण्यायामसमान उदयावलिबाह्यगुरगश्रेण्यायामेऽन्तरायामे द्वितीयस्थितौ च पूर्वोक्तविधानेन निक्षिपति।" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332