________________
२२८ ] उपशमनाकरणम्
[ गाथा-६१ गुणश्रेणिं करोति बध्यमानपञ्चप्रकृतिषु च विंशतिप्रकृत्यात्मकं सङ्गमस्थानं प्राप्नोति ।
स्त्रीवेदोपशमनानाशतः सहस्रषु स्थितिबन्धेषु व्रजितेषु नपुसकवेदोऽनुपशान्तो भवति । स्त्रीवेदोपशमनानाशतो यावति काले नपुसकवेद उपशान्तनाशस्तावतः कालस्य संख्येयेषु बहुभागेषु गतेषु ज्ञानावरणदर्शनावरणाऽन्तरायाणां स्थितिबन्धोऽसंख्येयवर्षप्रमाणो भवति । तेनेत: प्रभृति षण्णामपि कर्मणामसंख्येयवर्षमात्रः स्थितिबन्धो भवति, अतः प्रभृति स्थितिबन्धः पूर्वपूर्वतोऽसंख्येयगुणो भवति, नियमस्य प्रागुक्तत्वान्नाऽत्र पुनरभिधीयते । तत्राऽल्पबहुत्वम्मोहनीयस्य स्थितिवन्धः सर्वम्तोकस्ततोऽसंख्येयगुणो ज्ञानावरणदर्शनावरणाऽन्तरायाणाम्, ततोऽप्यसंख्येयगुणो नामगोत्रयोः,ततो वेदनीयस्य विशेषाऽधिकः । उक्तं च कषायप्राभृतचौँ"त्थिवेदे अणुवसंते जाव णसयवेदो उवसंतो एदिस्से अद्धाए संखेज्जेसु भागेसु गदेसु णाणावरणदसणावरणअंतराइयणमसंखेजवस्सिय हिदिबंधो जादो ताधे मोहणीयस्स हितिष धो थोवो तिण्हं घादिकम्माणं हिदिबंधो असंखेजगुणो नामगोदाणं हितिबंधो असंखेजगुणो। वेदणीयस्स हितिबंधो विसेसाहिओ । इति । ततः प्रभूत्येव ज्ञानावरणचतुष्कदर्शनावरणत्रिकाऽन्तरायपश्वकरूपद्वादशदेशघातिप्रकृतीनां द्विस्थाकमनुभागं बध्नाति । इतः प्रागेतासा प्रकृतीनां बन्ध एकस्थानाऽनुभाग आसीत् ।
सहस्रषु स्थितिबन्धेषु गतेषु नपुसकवेदस्योपशमनाऽपगच्छति ।
.(१) तदानीमेव द्वितीयस्थितितो दलिकं गहीत्वा नपुसकवेदस्य गलिताऽवशेषां गणश्रेणिमुदयावलिकोपरितननिषेकाच्छेषकर्मरणश्रेण्यायामेन सदृशां करोति । एवं ततः प्रभृति माहनीयस्यैकविंशतिप्रकृतीनां गलिताऽवशेषगुणश्रेणिं करोति । (२) शेषकर्मणां प्रागारब्धा गलिताऽवशेषगुणश्रीण स्तत्रापि प्रवर्तते ।। (३) तदानीमेव बध्यमानपुरुषवेदसंज्वलनक्रामानमायालोभेष्वनानुपूर्व्या चारित्रमोहनीयस्यैकविंशतिप्रकृत्यात्मकं सक्रमस्थानं प्राप्यते ।
नपुंसकवेदानुपशमनप्रथमसमयात्प्रभृति श्रेणिप्रतिपन्नसत्काऽनिवृत्तिकरणस्याऽन्तरकरणक्रियासमाप्तिचरमसमयपर्यन्तो योऽन्तमुहर्तकालस्तस्य संख्यातबहुभागेषु गतेषु मोहनीयस्याऽसंख्येयवार्षिक: स्थितिबन्धो द्विस्थानकश्चाऽनुभाग उदयमागच्छति । इदमुक्तं भवतिश्रेणितः प्रतिपातकोऽन्तरं न करोति, अतोऽन्तरकरणसमाप्तिचरमसमयोऽपि तेन नावाप्यते,
.लब्धिसारेऽत्र नपुंसकवेदस्याऽन्तरपूरणं प्राग्वदभिहितम् । अक्षराणि त्वेवम्"तत्प्रथमसमये नपुंसकवेदद्रव्यमपकृष्येतरकर्मगलिताऽवशेषगुणण्यायामसमान उदयावलिबाह्यगुरगश्रेण्यायामेऽन्तरायामे द्वितीयस्थितौ च पूर्वोक्तविधानेन निक्षिपति।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org