________________
नपुंसकवेदोदये प्रक्रियाविशेषः ] चारित्रमोहनीयोपशमनाधिकारः
[ २२६ किन्तूपशमश्रीणितः प्रतिपततो यः स्वनपुंसकवेदाऽनुपशमनप्रथमसमयो यश्चाऽऽरूढाऽन्तरकरणनिष्ठानचरमसमये सदृशः प्रतिपातुककालम्तयोरन्तरगतकालस्य संख्येयेषु बहुभागेषु गतेष्ववशिष्टसंख्येयतमभागस्य प्रथमसमयं प्राप्नोति, तदा मोहनीयस्याऽसंख्येयवर्षप्रमाणः स्थितिबन्धः, तथेतः प्रभृति मोहनीयस्योत्तरोत्तरस्थितिवन्धोऽसंख्येयगुणो भवति, नियमस्य प्रागुक्तत्वेन पिष्टपेपणप्रसंगान पुनरभिधीयते । मोहनीयस्य चाऽनुभागबन्धो द्विस्थानको भवति, एवमुदयेऽपि द्विस्थानकोऽनुभागो भवति । इतः प्राग्मोहनीयस्यैकस्थानकोऽनुभागबन्ध एकस्थानकश्चाऽनुभागोदय आमीत , सत्तायां तु प्रागपि द्विस्थानकोऽनुभाग आसीत्, अन्यथा तत्कालबध्यमानद्विस्थानकम्याऽऽवलिकाया अन क्रान्तत्वेन द्विस्थानकाऽनुभागोदयस्याऽनुपपत्तेः । बन्धमाश्रित्य तदानीमल्पबहुत्वं वित्थम्-(१) मोहनीयस्य स्थितिबन्धः सर्वम्तोकः (२) ततोऽसंख्येयगणो घातित्रयस्य (३) ततोऽपि नामगोत्रयोरसंख्येयगुणः (४) ततो वेदनीयस्य विशेषाधिकः ।
__ अन्तरकरणसमाप्त्यनन्तरसमयात्सप्त पदार्थाः प्रागुक्तास्तेभ्यो मोहस्याऽसंख्येयवार्षिक: स्थितिबन्धो द्विस्थानकाऽनुभागबन्धो द्विस्थानकाऽनुभागोदयश्चेति त्रयः पदार्था अवरोहकस्य विपरीतेनेतः प्रभृति प्रवर्तन्ते (लोभस्याऽसङ्कमो नपुसकवेदोपशमना चेति द्वे वस्तुनी विमुच्य) इतः प्रागेवानिवृत्तिकरणे व्यक्तिरूपेण लोभस्य सङ्क्रमो नपुंसकवेदोपशमनाऽपगमश्च प्रवृत्ती मोहनीयस्याऽऽनुपूर्वीसङ्कमो बद्धकर्म च षडावलिका व्यतिक्रम्योदीर्यन्त इति नियमौ परित्यज्य मोहनीयस्याऽनानुपूर्वी सङ्क्रमो बन्धाऽऽवलिकाव्यतिक्रमणे चोदीरणेति द्वौ पदार्थों प्रतिपातुकसूक्ष्मसंपरायप्रथमसमयादेव प्रवृत्ती। न च ये सप्त पदार्था आरोहकस्याऽन्तरकरणक्रिया. समाप्तितः प्रवृत्ताः तेभ्यस्त्रयः पदार्था विपर्ययेणाऽवरोहकस्याऽऽरोहकाऽन्तरकरक्रियासमाप्तिसमकाले प्रवर्तनीयाः । प्रतिपातुकस्य यो नपुंसकवेदाऽनुपशमनप्रथमसमयश्चाऽऽरोहकाऽन्तरकरणसमाप्ति चरमसमयमदृशः प्रतिपातुककालः, तयोरन्तरगतकालस्य संख्येयतमेऽवशिष्यमाण कथं प्रवर्तन्ने ? इति वाच्यम् , यद्यपि येनैव क्रमेणोपशमश्रेणिमारोहति. तेनैव विपरीतक्रमेण पदार्थाः प्रवर्तन्ते, तथाऽप्यारोहकस्य यस्मिन काले प्रवृत्ता आसन , तस्मिन्नेव काले न प्रवर्तन्ते, आरोहककालतोऽवरोहककालस्य किश्चिन्यूनत्वनियमसत्त्वात् तथा च सत्यारोहकस्य यत्स्थाने मोहनीयस्य संख्येयवार्षिकः स्थितिबन्ध एकस्थानकोऽनुभागवन्ध एकस्थानकश्चाऽनुभागोदयो भवन्ति स्म । ततोऽर्वागेवाऽवरोहकस्य तेषां त्रयाणां पदार्थानां प्रवर्तनं संभवति ।
सर्वघातिरसबन्धारम्भ:--मोहनीयस्याऽसंख्येयवार्षिकस्थितिबन्धभवनान्तरं पूर्वोक्ताऽल्पबहुत्वक्रमेण संख्येयेषु सहस्रेषु स्थितिबन्धेषु गतेषु वीर्यान्तरायकर्मणोऽनुभागः सर्वघाती बभ्यत इतः प्रागबन्धे देशघात्यनुभाग आसीन् , ततः संख्यातसहस्रषु स्थितिबन्धेषु व्रजितेषु मतिज्ञानावरणोपभोगान्तराययोर्देशघात्यनुभाग परित्यज्य सर्वघात्यनुभागं बध्नाति, ततः स्थितिबन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org