SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २३० ] [ गाथा ६१ थक्त्वे गते चक्षुर्दर्शनावरणस्याऽनुभागः सर्वघाती बध्यते । ततः स्थितिबन्धपृथक्त्वे गते श्रुतज्ञानावरणाऽचक्षुर्दर्शनावरणभोगान्तरायाणां देशघात्यनुभागं परित्यज्य सर्वघात्यनुभागं बध्नाति । ततः संख्यातेषु स्थितिबन्धसहस्रेषु गतेष्ववधिज्ञानावरणाऽवधिदर्शनावरणलाभान्तरायाणां देशघात्यनुभागं मुक्त्वा सर्वघात्यनुभागं बध्नाति । ततः सहस्र ेषु स्थितिबन्धेषु गतेषु मनःपर्यवज्ञानावरणदानान्तराययोर्देशघात्यनुभागं परित्यज्य सर्वघात्यनुभागं बध्नाति, बन्धे मनः पर्यवज्ञानावरणदानान्तराययोः सर्वघात्यनुभागभवनान्तरं सहस्रेषु स्थितिबन्धेषु गतेषु सत्स्वसंख्येय समयप्रबद्धोदीरणा व्यवच्छिन्ना भवति । ) उक्तं च कषायप्राभृतचूर्णौ- "तदो ठितिबंधसहस्सेसु गदेसु असंखेज्जाणं समयपबडाणुदीरणमुदीरणा पडिहम्मदि असंस्वेज्जलोग भागो समयपबद्धस्स उदीरणा पवत्तदि ' इति । यदाऽसंख्येयसमय प्रबद्धोदीरणा भवति, तदानीमुदीरणायामसंख्येयसमयप्रबद्धप्रमाणदलमायात्, इतः प्रभृति समयप्रबद्धस्याऽसंख्येयलो काकाशभागप्रमाणं दलमुदीरणामायाति । स्थितिबन्धस्य क्रमपरावृत्तिः उपशमनाकरणम्म यस्मिन्कालेऽसंख्येयसमयप्रबद्धोदीरणा नश्यति, तदानीमपि सप्तकर्मणां पत्योपमऽसंख्येयभागरूपोऽसंख्येयवार्षिकः स्थितिबन्धः प्रवर्तते । अन्पबहुत्वं त्वित्थम् - (१) मोहनीयस्य स्थितिबन्धः सर्वस्तोकः ( २ ) ततो ज्ञानावरणदर्शनावरणाऽन्तरायाणामसंख्येयगुणः स्वस्थाने तु परस्परं सदृश: ( ३ ) ततोऽपि नामगोत्रयोरसंख्येयगुणः स्वस्थाने लब्धिसारेऽयं विशेषो दर्शित:- प्रसंख्येसमय प्रबद्धोदीरणाऽवसरेऽपकृष्टं द्रव्यंपल्योपमाऽसंख्येयभागेन मक्त्वा बहुभागान् गुणश्रेण्यायामोपरितनायां द्वितीयस्थितौ निक्षिप्याऽवशिष्टेक भाग भूयः पल्याऽसंख्यात भागेन खण्डयित्वा तद्बहुभागानुदयावलिकोपरितन निषेकात्प्रक्षिप्य शेषैकभागमुदयावलिकायां निक्षिपति स्म, इतः प्रभृत्यपकृष्टद्रव्य पल्योपमाऽसंख्येयभागेन विभज्य बहुभागान् गुणश्रेव्यायामोपरितनायां स्थितौ निक्षिप्याऽवशिष्टकभागं पल्याऽसंख्यात भागस्थानेऽसंख्येयला काकाशप्रदेशप्रमाणरूपभागकारेण भक्त्वा बहुभागानुदयावलिकोपरितन निषेकाद्गुणश्रेण्यायामे निक्षिप्याऽवशिष्टक भागमुदयावलिकायां प्रक्षिपतीतः प्राग्गुणश्रेण्यर्थं गृहीत दलिकस्य पल्योपमाऽसंख्यात भागमात्र दलिकस्योदयावलिकायां निक्षेपात्तत्राऽसंख्येयबद्धदलं निक्षिपति स्म । प्रतः प्रभृति गुणश्रेण्यर्थं गृह्यमाणदलिकस्याऽसंख्येयलोकभाग प्रमाणस्य दलस्योदयावलिकायां निक्षपात्तत्र समय प्रबद्धस्याऽसंख्येय भागे मात्रे दलं प्रक्षिपति | लब्धिसाराऽक्षराणि त्वेवम् "गुणश्रेणिकरणार्थं मपकृष्टद्रव्यस्याऽऽरोहको यः पल्याऽसंख्यातमात्र भागहारः प्रागुक्तः सोऽधो यावदायातोऽस्मिन्नवसरे प्रतिहतः । इदानीम संख्यात लोकमात्रो भागाहारोSपकृष्टद्रव्यस्य संजातः । ततः करणादसंख्येय समय प्रबद्धोदीरणां विनैकसमयप्रबद्धाऽसंख्येयभागमात्रोदीरणा संजातेत्यर्थः ।" इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org 。
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy