________________
स्थितिबन्धक्रमपरावृत्तिः ] चारित्रमोहनीयोपशमनाधिकारः
[ २३१ मिथः तुल्यः (४) ततोऽपि वेदनीयस्य विशेषाऽधिकः ।
अथ स्थितिबन्धेऽल्पबहुत्वस्य क्रमः परावर्तते, पूर्वोक्तक्रमेण सहस्रषु स्थितिबन्धेषु व्यतीतेषु ज्ञानावरणदर्शनावरणाऽन्तरायत्रिकं नामगोत्रयोरुपरि गच्छति । प्राग हि घातित्रयस्थितिबन्धो नामगोत्रस्थितिबन्धस्याऽसंख्येयभागमात्र आसीत्, अधुना तु घातित्रयस्य स्थितिबन्धो नामगोत्रतो विशेषाऽधिको भवति ।
तदानीमल्पबहुत्वं विचार्यते-(१) मोहनीयस्य स्थितिबन्धः सर्वस्तोकः (२) ततो नामगोत्रयोरसंख्येयगणः स्वस्थाने तु मिथः सदृशः (३) ततोऽपि धातित्रयस्य विशेषाधिकः स्वस्थाने तु परस्परं तुल्यः (४) ततोऽपि वेदनीयस्य विशेषाधिकः ।
ततः स्थितिबन्धसहस्रषु व्यतिक्रान्तेषु घातित्रयस्य स्थितिबन्धो वेदनीयस्य स्थितिबन्धेन सदृशो भवति । अल्पबहुत्वं वित्थम्-(१) मोहनीयस्य स्थितिबन्धः सर्वाऽल्पः (२)ततोऽपि नामगोत्रयोरसंख्येयगणः स्वस्थाने मिथस्तुल्यः(३)ततोऽपि ज्ञानावरण दर्शनावरणाऽन्तरायवेदनीयानां विशेषाधिकः स्वस्थाने मिथस्समानः । एवंक्रमेण सहस्रषु स्थितिबन्धेषु व्रजितेषु मोहनीयस्य स्थितिबन्धो नामगोत्र योरुपरि गच्छति । मोहनीयस्य स्थितिबन्धो नामगोत्रतो विशेषाऽधिको भवतीत्यर्थः । स्थितिबन्धमाश्रित्याऽल्पबहुत्वं त्वेवम्- (१) नामगोत्रयोः स्थितिबन्धः सर्वाल्पः, स्वस्थाने तु परस्परं तुन्यः (२) ततो मोहनीयम्य विशेषाऽधिकः (३) ततोऽपि ज्ञानावरणदर्शनावरणाऽन्तरायवेदनीयानां विशेषाऽधिकः स्वस्थाने तु मिथस्समानः।
___उपयुक्तक्रमेण सहस्रषु स्थितिबन्धेषु गतेषु मोहनीयस्य स्थितिबन्धो ज्ञानावरणदर्शनावरणाऽन्तराय वेदनीयानामुपरि गच्छति, एतदुक्तं भवति-मोहनीयस्य स्थितिबन्धो ज्ञानावरणदिचतुष्कतोऽपि विशेषाधिको भवति । स्थितिबन्धमवलम्ब्याऽल्पबहुत्वमभिधीयते (१) नामगोत्रयोः सर्वाल्पः स्थितिबन्धः (२) ततो ज्ञानावरणदर्शनावरणाऽन्तरायवेदनीयानां विशेषाधिकः (३) ततः पुनर्मोहनीयस्य विशेषाधिका, इदमल्पबहुत्वमग्रेऽपि सर्वत्र वक्तव्यम् । उक्तक्रमेण सहस्र षु स्थितिबन्धेषु जितेषु सप्तानामपि कर्मणां युगपत्पल्योपमसंख्यातभागमात्रः स्थितिबन्धो भवति, ततः प्रभृति सप्तानामपि कर्मणां पूर्वपूर्वस्थितिबन्धत उत्तरोत्तरस्थितिबन्धः संख्यातगुणो भवति, उक्तक्रमेण सहस्रषु स्थितिबन्धेषु व्रजितेषु पल्योपमसंख्यातभागमात्रस्थितिबन्धान्मोहनीयम्य स्थिातिबन्धः पल्योपमप्रमाणः, ज्ञानावरणदर्शनावरणाऽन्तरायवेदनीयाना पल्योपमसंख्यातभागस्थितिबन्धात्पल्योपमस्य त्रिचतुर्भागप्रमितः नामगोत्रयोः पन्योपमसंख्यातभागस्थितिबन्धात्पल्योपमाऽर्धप्रमाणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org