________________
२३२ ] उपशमनाकरणम
[गाथा ६१ इदानी स्थितिषन्धः पूर्वस्थितिवन्धस्तदृष्टिप्रमाणं च यन्त्रे दर्यते-- प्रकृतयः स्थितिबन्धस्य वृद्धिप्रमानगम्
स्थितिबन्धः नामगोत्रयोः पल्यसख्यातभागन्यूनपल्याऽर्धमात्र:
पल्याऽर्धमात्रः ज्ञानदर्शनावरणाऽन्तपल्यसंख्यातभागन्यूनपत्रिक
पल्यत्रिचतुर्भागरायवेदनीयानाम् चतुर्भागमात्रः
प्रमाणः भोहनीयस्य पल्याऽसंख्यातभागोनपल्यमात्र:
पल्यमात्रः इतः प्रति पूर्वपूर्वस्थितिबन्धत उत्तरोत्तरस्थितिबन्धः पल्योपमसंख्यातभागमात्रेण वर्धते, पल्योपमसंख्यातभागमात्रवृद्धिक्रमेण संख्यातसहस्रषु स्थितिबन्धेषु गतेषु सप्तानामपि कर्मणां स्थितिवन्ध एकेन्द्रियस्थितिबन्धसदृशो भवति । ततः संख्यातसहस्रस्थितिबन्धेषु वजितेषु सप्तानामपि कर्मणां स्थितिबन्धो द्वीन्द्रियस्थितिवन्धतुल्यो भवति । ततः संख्यातसहस्रस्थितिबन्धेष्वतिक्रान्तेषु नामकर्मादीनां सप्तकर्मणां स्थितिबन्धस्त्रीन्द्रियस्थितिबन्धसदृक्षो भवति । ततः स्थितिबन्धपृथक्त्वेऽपगते सप्तकर्मणां स्थितिबन्धश्चतुरिन्द्रियस्थितिबन्धसदृग्भवति । ततः संख्यातेषु स्थितिबन्धसहस्रषु व्यतिक्रान्तेषु सप्तकर्मणां स्थितिबन्धोऽसंज्ञिपञ्चेन्द्रियस्थितिबन्धःसमानो भवति । ततः संख्यातसहस्रषु स्थितिबन्धेषु व्यतीतेषु प्रतिपन्ननिवृत्तिकरणचरमसमयं प्राप्नोति । तदानीं नामकर्मादीनां स्थितिबन्धोऽन्तःकोटीवर्षप्रमाणो भवति सागरोपमलक्षपृथक्वप्रमाणो भवतीत्यर्थः । उक्तं च कषायप्राभृतचूर्णी-"चरिमसमयअणियटिम्स डिदिबंधो सागरोपमसदसहस्सपुधत्तमंतोकोडीए ।" इति ।।
___ अस्मिन्प्रकरणे प्रागुक्ता गुणश्रेणिः स्मृतिहेतवे पुनभिधीयते-प्रतिपातुकसूक्ष्मसंपरायगुणस्थानकप्रथमसमयादारभ्याऽवरोहकाऽपूर्वकरणचरमसमयपर्यन्तं मोहनीयवर्जज्ञानावरणादिषट्कर्मणां सूक्ष्मसंपरायाऽनिवृत्तिकरणाऽपूर्वकरणकालत्रयात्किश्चिदधिकाऽऽयामा गलिताऽवशेषमात्री गुणश्रेणिर्भवति, ततः प्रतिपातुकयथाप्रवृत्तकरणेऽवस्थिताऽऽयामा, एवं प्रमत्तगुणस्थानकेऽपि । मोहनीयकर्मणत्वयं विशेषः-सूक्ष्मसंपरायप्रथमसमयाद्यस्य कषायस्योदयेन श्रोणि प्रतिपन्नः, तं कषायमुदयेनाऽप्राप्तस्य प्रतिपातुकस्य शेषकषायाणामव स्थिताऽऽयामा गुणश्रोणिर्भवति, यथा क्रोधेनाऽऽरूढस्य प्रतिपातुकस्य कियन्तं कालं यावल्लोभस्य गुणश्रेण्यायामोऽवस्थितो भवति तद्गुणश्रेण्यायामय त्रिवर्धते । ततः परं गलिताऽवशेषो भवति, तथाहि-क्रोधोदयेनाऽऽरूढः प्रतिपातुका सूक्ष्मसंपरायलोमस्याऽवस्थिताऽऽयामगुणश्रीणि कृत्वाऽनिवृत्तिकरणप्रथमसमये बादरलोभस्य प्रथमस्थितिं कुर्वन्नायामं वर्धयति, स च बादरलोभवेदकाऽद्धायाश्चरमसमयपर्यन्त. मवस्थितो भवति । ततः पुनर्मायावेदकाऽद्धायाः प्रथमसमये द्वितीयवारमायामं वर्धयति, स च मायावेदकाऽद्धायाश्चरमसमयपर्यन्तमवस्थितो भवति, ततः पुनस्तृतीयवारं मानवेदकाऽद्धा प्रथम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org