________________
彝
प्रतिपाते यथाप्रवृत्तापूर्वकरणे ]
चारित्रमोहनीयोपशमनाधिकारः
[ २३३
समय आयामं वर्धयति, स च मानवेदकाद्धा चरमसमयं यावदवस्थितो भवति । ततः क्रोधवेदकाऽद्धाप्रथमसमयाच्चतुर्थवारमायामं वर्धयित्वा गलिताऽवशेषमात्रशेषकर्मगुणश्र ेण्यायामसदृशां करोति । अतः प्रभृति गुणश्रेण्यायामश्च गलिताऽवशेषो भवति । इदानीं च द्वादशकषायाणां गलितावशेषगुणश्र णि करोति । ततो नोकषायाणामुपशान्तत्वे नष्टे तेषामपि गुणश्रेणिः कषायवगलितावशेषगुणश्रेणिर्भवति ।
अपूर्वकरणम् - प्रतिपातुकाऽनिवृत्तिकरण चरमसमयमनुभूयाऽपूर्वकरणे प्रतिपतति, अपूर्वकरणप्रथमसमय एव देशोपशमनानिधत्तिनिकाचनाकरणान्युद्घाटितानि भवन्तीति मूलकारावर्णिकाराश्च स्वयमेव चतुःषष्टितमगाथायां वक्ष्यन्ते, तदानीं हास्यरतिभयजुगुप्सारूपचतुष्प्रकृतीनां बन्धमारभते, तेन मोहनीयस्य नवप्रकृत्यात्मकं बन्धस्थानं बध्नाति, नानाजीवऽपेक्षया च हास्य षट्कमुदेति ततोऽवरुह्य द्वितीयभागारम्भाद् देवद्विकादित्रिंशत्प्रकृतीनां बन्धको जायते । ततोऽपूर्वकरण सप्तम भागप्रथमसमयं प्राप्य निद्राद्विकं बद्धुमुपक्रमते । ततः संख्यातसहस्रषु स्थितिबन्धेषु गतेषु सत्स्व पूर्वकरणं परिसमाप्तं भवति । तदानीं स्थितिबन्धोऽन्तः सागरोपमकोटाकोटीवर्षप्रमाणो भवति । इदानीमेव सप्तानामपि कर्मणां गलिताऽवशेषगुणभ्रं विच्छिन्ना भवति, ततः परं गलिताऽवशेषगुणश्र ेणिर्न भवति ।
यथाप्रवृत्तकरणम् - अपूर्वकरणं परिसमाप्य श्रेणितः पातुको जन्तुर्यथाप्रवृत्त करणे प्रतिपतति । यथाप्रवृत्त करणेऽपूर्वकरणवद्गलिताऽवशेषगुणश्रेणिं न करोति, किन्तु प्रतिसमयमसंख्येयगुणद्दोनक्रमेण दलं गृहीत्वा संयम हेतुकामवस्थिताऽऽयामगुणश्र ेणिं करोति । श्रेणिनिमित्तकात्वपूर्वकरणेन सह व्यवच्छिन्ना । इदानीं च गुणश्रेण्यायामः सूक्ष्मसंपरायप्रथमसमयात्प्रारब्धप्राक्तनगुणश्रेण्यायामतः संख्ये यगुणोऽन्तर्मुहूर्त प्रमाणश्च । एवं प्रतिसमयं दलिका ऽपेश्चयाऽसंख्येयगुणहीन क्रमेणाऽवस्थितां गुणश्रेणिं यथाप्रवृत्त करणेऽन्तमुहूर्त पर्यन्तं करोति ततः परं स्वभावस्थो भवति । ततः परं यदि संयत एव तिष्ठेत् तर्हि तावदायामाम्, देशविरति गच्छेत् तर्हि संख्यातगुणाऽऽयामाम् यः पुनरुपशमश्र णिं क्षपकश्रणिं वा प्रतिपद्यते, तर्हि संतगुणहीनायामां गुणश्रेणि कुर्यात् । यथाप्रवृत्तकरणप्रथमसमयादेव गुणसङ्क्रमो व्यवच्छिन्नो भवति, बन्धयोग्यप्रकृतीनां यथाप्रवृत्तसङ्क्रमस्तद्गुणस्थानके च बन्धाऽयोग्यप्रकृतीनां विध्यातसङ्क्रमः प्रवर्तते । उक्तं च कषायप्राभृतचूर्णी “पढमसमय अधापवत्तकरणे गुणसंकमो वोच्छिष्णो सन्चकम्माणमधापत्रत्तसंकमो जादो णवरि जेसिं विज्जादसंकमो अत्थि तेसिं विज्जादस कमो चेव ।" इति । श्रणिप्रतिपन्नस्याऽपूर्वकरण प्रथमसमयादारभ्य प्रतिपातुकाऽपूर्वकरण चरमसमयपर्यन्तं यः कालः, ततः संख्येयगुण औपशमिक
9
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org