SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 寡 पुरुषस्त्रोवेदाऽनुपशमना ] चारित्रमोहोपशमनाधिकारः [ २२७ (४) तदानीं पुरुषवेदस्य स्थितिबन्धो द्वात्रिंशद्वर्षप्रमितः संज्वलनचतुष्कस्य चतुषष्टिवर्षप्रमाणः शेषकर्मणां च संख्यातवर्षसहस्राणि । उक्तं च कषायप्राभृतचूर्णौ- "ताधे चेव पुरिसवेदस्स द्विदिबंधो बत्तीसवस्साणि पडिवुष्णाणि संजलगाणं द्विदिबंधो च दुसविरसाणि सेसाणं कम्माणं द्विदिबंधो संखेज्जाणि वस्ससहस्साणि " इति । पुरुपवेदोपशामनाऽपगमतः सहस्र ेषु स्थितिबन्धेषु गतेषु स्त्रीवेदोऽनुपशान्तो भवति । पुरुषपशमनात यावति काले स्त्रीवेदोनुपशान्तः, तावतः कालस्य संख्यातेषु बहुभागेषु गतेषु सत्सु नामगोत्र वेदनीयानामसंख्येयवर्षसहस्रप्रमाणः स्थितिबन्धो भवति । अतः प्रभृति पूर्वपूर्वस्थितिबन्धतो नामगोत्रवेदनीयानां स्थितिबन्धोऽसंख्येयगुणो भवति, यतः प्रभृति यस्य कर्मणः स्थितिबन्धोऽसंख्येयवार्षिको भवति ततः प्रभृति तस्य कर्मणः पूर्वपूर्वत उत्तरोत्तरस्थितिबन्धोSoगुणो भवत्येवं तावद्वाच्यम्, यावत्पन्योपमसंख्येय भागप्रमाणः स्थितिबन्धो न भवतीति नियमसंभवात् उवतं च कषायप्राभृत्तचूर्णौ-जन्त्तो पाए असंखेज्जवस्सट्ठि दिगंधो तत्तो पाए पुष्णे पुणे हिदिगंधे अण्णं द्विदिगंधमसंखेज्जगुणं बंधइ एदेण कमेण सत्तण्हं पिकम्माणं पलिदोवमस्स असंखेज्जदि भगियादो डिदिगंधादो एक्कष्पहारेण सत्तण्हं पि कम्माणं पलिदोवमस्स संखेज्जदिभागिओ हिदिगंधो जादो एशो पाए पुणे पुणे दिगंधे अण्णं द्विदिबंध संखेज्जगुणं बंधइ ।" इति । तत्रेदमन्पबहुत्वम् - मोहनीयस्य स्थितिबन्धः सर्वस्तोकः, ततो घातित्रयस्य संख्येयगुणः, ततोऽपि नामगोत्रयोरसंख्येयगुणः, ततोऽपि वेदनीयस्य विशेषाधिकः । उक्तं च कषायप्राभृतचूर्णौ “पुरिसवेदे अणुवसंते जाव इत्थिवेदो उवसंतो एदिस्से अडाए संखेज्जेसु भागे गदेसु णाम गोद वेदणी गाण ससंखेज्जवस्सियडिदिगो बंधो अप्पानहुअं काव्वं सव्वथोवो मोहणीयस्स डिदिबधो तिण्हं घादिकम्माणं द्विदिबंधो संखेजगुणो णामगोदाणं द्विदिबंधो असखेज्जगुणो वेदणीयस्स ट्ठिदिबंधो विसेसाहिओ ।" इति । एवं सहस्र षु स्थितिबन्धेषु गतेषु स्त्रीवेदस्योपशमना नश्यति । तेन तद्दलिकं समाकृष्योदयावलिकोपरितन- 5 प्रथमनिषेकादारभ्य शेषकर्मसत्कगुणश्र णिशीर्षपर्यन्तं गलिताsaशेषमात्र गुणश्रेणिं रचयति । एवमितः प्रभृति मोहनीयस्य विंशतिप्रकृतीनां गलिताऽवशेष I फुं श्रत्र लब्धिसारे स्त्रीवेदस्याऽन्तरपूरणमुक्तम्, तथा च तद्ग्रन्थ: "तत: संख्यात सहस्रस्थितिबन्धेष्वतमुहूर्त काले गतेकस्मिन् समये स्त्रावेदोपशमो विनष्टस्ततः प्रभृति स्त्रीवेदद्रव्यं सङ्क्रमणाऽपकर्षणादिकरणयोग्य सञ्जातमित्यर्थः । तस्मिन् स्त्रीवेदोपशमन विनाशप्रथमसमये स्त्रीवेदमपकृष्य तस्योदयरहितत्वादुदयावलिबाह्यगुणश्रेण्यायामेऽन्तरायामे द्वितीयस्थितौ च पूर्वोक्तविधानेन निक्षिपति ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy