________________
२२६ ]
उपशमनाकरणम्
[ गाथा ६१ (४) संज्वलनक्रोधस्य बन्ध आरभ्यते, तेनेतः प्रभृति मोहनीयस्य चतस्रः प्रकृतयो वध्यन्ते । तासां पतद्ग्रहत्वेन संज्वलनक्रोधमानमायालोमेषु द्वादशकषायाणामनानुपूर्व या सङ्क्रमयति । इदमुक्तं भवति-संज्वलनक्रोधे मध्यमक्रोधद्विकं मानत्रिक मायात्रिकं लोभत्रिकं चेत्ये कादश प्रकृतीः सङ्कमयति,संज्वलनमाने च क्रोधत्रिक माध्यममानद्विकं मायात्रिक लोभत्रिकं चेत्ये कादश प्रकृतीः सङ्क्रमयति, संज्वलनमायायां च क्रोधत्रिक मानत्रिकं मध्यममायाद्विक लोभत्रिक चेत्येकादश प्रकृतीः सङ्क्रमयति संज्वलनलोभे च क्रोधत्रिकं मानत्रिकं मायात्रिक मध्यमलोभद्वयं चेत्येकादश प्रकृतीः सङ्क्रमयति ।
(५) तदानीं संज्वलनचतुष्कस्य स्थितिबन्धोऽष्टमासप्रमाणश्शेषकर्मणां च संख्यातवर्षसहस्त्रमितः। उक्तं च कषायमाभतचूर्णी-"ताधे हिदिबंधो चउण्हं संजलणाणमट्टमासा पडिवुण्णा सेसाणं कम्माणं हिदिबंधोसंखेज्जाणि वस्ससहस्साणि।" इति । पूर्ववदुत्तरोत्तराऽभिनवस्थितिबन्धो मोहनीयस्य विशेषाऽधिकः, शेषाणां तु कर्मणां संख्यातगुणः। एवं स्थितिबन्धसहस्रषु गच्छत्स्ववेदकस्य चरमसमये संज्वलनचतुष्कस्याऽन्तमु हुोनचतुःषष्टिवर्षप्रमाणो भवति शेषकर्मणां च संख्यातसहस्रवर्षमात्रः। उक्तं च कषायप्राभूतचूर्णी-"ताधे मोहणोयस्स हिदिधो च दुसहिवस्साणि अतोमुहत्तणाणि सेसाणं कम्माणं हिदिबंधो संखे. ज्जाणि वस्ससहस्साणि ।" इति ।
पुरुषवेदोदयः
(१) अवेदकस्य चरमसमये वेदिते सप्तनोकषायाणामुपशान्तत्वमपगच्छति । + द्वितीयस्थितितस्तेषां दलं गृहीत्वा प्रागुपक्रान्तद्वादशकषायगुणश्रेण्यायामसदृशां गलिताऽवशेषां गुणश्रेणि विरचयति । तत्राऽपि पुरुषवेदस्योदयसमयात्प्रभृति शेषाणां पण्णां पुनरुदयावलिकाया उपरितनसमयाद्रचयति ।
(२) शेषकर्मणां प्रागारब्धा गलिताऽवशेषमात्री गुणश्रोणिरत्राऽपि प्रवर्तते ।
(३) पुरुषवेदमुदयेनानुभवति तथा पुरुषवेद बद्धमुपक्रमते, सप्तानां च नोकषायाणामनानुपूा सङ्क्रममितः प्रभृत्यारभते। तेन बध्यमानसंज्वलनकोधमानमायालोभपुरुषवेदेषु पञ्चप्रकृ. तिषु मोहनीयस्यैकोनविंशतिप्रकृतीः संक्रमयति ।
+टिप्पणी-अन्न लब्धिसारे सप्तनोकषायाणां सज्वलनक्रोधनदन्तरं पूरयतीत्युक्तम्, तथा च तद् ग्रन्थः"तन्नोदयवतोः पुवेदसंज्वलनक्रोधयोद्रव्यमपकृष्योदयादिगुणश्रेण्यायामेऽन्तरायामे द्वितीयस्थितो च संज्वलन क्रोधोक्तप्रकारेण द्रव्यनिक्षेपं करोति । उदयरहितानां शेषकषायनोकषायाणां द्रव्यमकृष्योदयावलिबाह्यगुणण्यायामऽन्तरायामे द्वितीयस्थितौ च पूक्तिप्रकारेण निक्षिपति ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org