Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 289
________________ स्थितिबन्धक्रमपरावृत्तिः ] चारित्रमोहनीयोपशमनाधिकारः [ २३१ मिथः तुल्यः (४) ततोऽपि वेदनीयस्य विशेषाऽधिकः । अथ स्थितिबन्धेऽल्पबहुत्वस्य क्रमः परावर्तते, पूर्वोक्तक्रमेण सहस्रषु स्थितिबन्धेषु व्यतीतेषु ज्ञानावरणदर्शनावरणाऽन्तरायत्रिकं नामगोत्रयोरुपरि गच्छति । प्राग हि घातित्रयस्थितिबन्धो नामगोत्रस्थितिबन्धस्याऽसंख्येयभागमात्र आसीत्, अधुना तु घातित्रयस्य स्थितिबन्धो नामगोत्रतो विशेषाऽधिको भवति । तदानीमल्पबहुत्वं विचार्यते-(१) मोहनीयस्य स्थितिबन्धः सर्वस्तोकः (२) ततो नामगोत्रयोरसंख्येयगणः स्वस्थाने तु मिथः सदृशः (३) ततोऽपि धातित्रयस्य विशेषाधिकः स्वस्थाने तु परस्परं तुल्यः (४) ततोऽपि वेदनीयस्य विशेषाधिकः । ततः स्थितिबन्धसहस्रषु व्यतिक्रान्तेषु घातित्रयस्य स्थितिबन्धो वेदनीयस्य स्थितिबन्धेन सदृशो भवति । अल्पबहुत्वं वित्थम्-(१) मोहनीयस्य स्थितिबन्धः सर्वाऽल्पः (२)ततोऽपि नामगोत्रयोरसंख्येयगणः स्वस्थाने मिथस्तुल्यः(३)ततोऽपि ज्ञानावरण दर्शनावरणाऽन्तरायवेदनीयानां विशेषाधिकः स्वस्थाने मिथस्समानः । एवंक्रमेण सहस्रषु स्थितिबन्धेषु व्रजितेषु मोहनीयस्य स्थितिबन्धो नामगोत्र योरुपरि गच्छति । मोहनीयस्य स्थितिबन्धो नामगोत्रतो विशेषाऽधिको भवतीत्यर्थः । स्थितिबन्धमाश्रित्याऽल्पबहुत्वं त्वेवम्- (१) नामगोत्रयोः स्थितिबन्धः सर्वाल्पः, स्वस्थाने तु परस्परं तुन्यः (२) ततो मोहनीयम्य विशेषाऽधिकः (३) ततोऽपि ज्ञानावरणदर्शनावरणाऽन्तरायवेदनीयानां विशेषाऽधिकः स्वस्थाने तु मिथस्समानः। ___उपयुक्तक्रमेण सहस्रषु स्थितिबन्धेषु गतेषु मोहनीयस्य स्थितिबन्धो ज्ञानावरणदर्शनावरणाऽन्तराय वेदनीयानामुपरि गच्छति, एतदुक्तं भवति-मोहनीयस्य स्थितिबन्धो ज्ञानावरणदिचतुष्कतोऽपि विशेषाधिको भवति । स्थितिबन्धमवलम्ब्याऽल्पबहुत्वमभिधीयते (१) नामगोत्रयोः सर्वाल्पः स्थितिबन्धः (२) ततो ज्ञानावरणदर्शनावरणाऽन्तरायवेदनीयानां विशेषाधिकः (३) ततः पुनर्मोहनीयस्य विशेषाधिका, इदमल्पबहुत्वमग्रेऽपि सर्वत्र वक्तव्यम् । उक्तक्रमेण सहस्र षु स्थितिबन्धेषु जितेषु सप्तानामपि कर्मणां युगपत्पल्योपमसंख्यातभागमात्रः स्थितिबन्धो भवति, ततः प्रभृति सप्तानामपि कर्मणां पूर्वपूर्वस्थितिबन्धत उत्तरोत्तरस्थितिबन्धः संख्यातगुणो भवति, उक्तक्रमेण सहस्रषु स्थितिबन्धेषु व्रजितेषु पल्योपमसंख्यातभागमात्रस्थितिबन्धान्मोहनीयम्य स्थिातिबन्धः पल्योपमप्रमाणः, ज्ञानावरणदर्शनावरणाऽन्तरायवेदनीयाना पल्योपमसंख्यातभागस्थितिबन्धात्पल्योपमस्य त्रिचतुर्भागप्रमितः नामगोत्रयोः पन्योपमसंख्यातभागस्थितिबन्धात्पल्योपमाऽर्धप्रमाणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332