Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 271
________________ 穆 [ २१३ B. मोहेऽनुभागादयः ] कृतगुणश्रेणिशीर्षसमये यत्सत्तागतगोपुच्छाकारदलिकं तत उत्तरोत्तरसमये सत्तागतगोपुच्छाकारदलिकस्य विशेषहीनत्वेन तदानीमुदयमानदलिकस्य न्यूनत्वसंभवात् । न चैवमपूर्वकरणप्रथमादिसमयकृतगलिताऽवशेषगुणश्रेणिशीर्षसमय उदयमान उत्कृष्टप्रदेशोदयः कथ न भवति ? यतो गलिताऽवशेषगुणश्रेणिशीपेऽपूर्वकरण प्रथम समयादारभ्योपशान्तमोहगुणस्थानकेऽपि दल प्रक्षिप्यत इति वाच्यम्, सूक्ष्म संपशयगुणश्रेणिचरम समयपर्यन्तनिक्षिप्तप्राक्तन गुणश्रेणिसर्वदलिकतोऽप्युपशान्तमोहगुणस्थानकस्य विशुद्धिमाहात्म्येन तद्गुणस्थानकप्रथमसमये गुणश्रेण्यर्थं गृह्यमाणदलिकस्याऽसंख्येयगुणत्वेन गलिताऽवशेषगुणश्रेणिशीर्ष उदयमान उत्कृष्ट प्रदेशोदयासंभवात् । ननु सूक्ष्मसंपरायगुणस्थानक नरम समयकृतगुणश्रेणिशीर्षसमय उपशान्तमोहगुणस्थानकप्रथमसमयकृतगुणश्रेणिशीर्षतोऽर्वाकू कथं प्राप्यत इति चेद् ! उच्यते - अल्पबहुत्वाऽधिकारे वक्ष्यते सूक्ष्मसंपरायचरमसमयकृतगुणश्रेण्यायामत उपशान्तमोह गुणस्थानकप्रथम समय कृतगुणश्रेण्यायामः संख्ये गुणः, तत्राऽक्षराणि त्वेवम् - "चरिमसमय सुहुमसां पराइयस्स गुणसेदणिकखेवो संखेज्जगुणो त चेव गुणसेढिसोसयं ति भण्णदि । उवसंतकसायस गुणसेहिणिक्खेवो संखेज्जगुणो ।" इति । इत्थमुपशान्तमोहगुणस्थानकप्रथमसमयकृतगुणश्रेण्यायामतः संख्ये यगुणहीनः सूक्ष्मसंपरायचरमसमयकृतगुणश्रेण्यायामो भवति । तेनोपशान्तमोहगुणस्थानकप्रथम समय कृतगुणश्रेण्यायामस्य संख्येयतमे भागे सूक्ष्म संपरायस्य चरमसमयकृत गुणश्रेणिशीपं प्राप्यते । ततः परं संख्येयेषु बहुभागेषु गतेषूपशान्तमोह गुणस्थानकप्रथमसमयकृतगुणश्रेणिशीर्षं प्राप्यते, अत उपशान्तमोह गुण स्थानक प्रथमसमय कृतगुण श्रेणिशीर्पतोsa सूक्ष्मसंपरायस्यगुणस्थानकचर मसमय कृतगुणश्रेणिशीर्षं लभ्यते । चारित्रमोहनोयोपशमनाधिकारः अनुभाग:- उपशान्तमोहगुणस्थानके वेद्यमानपञ्चविंशतिप्रकृतीनामनुभागोऽवस्थितो भवति, कथमेतद्भवतीति चेद् ! उच्यते, नामकर्मणस्तैजसकार्मणशरीरवर्णगन्धरसस्पर्श स्थिराऽस्थिरशुभाऽशुभाऽगुरुलघुनिर्माणरूपा ध्रुवोदया द्वादश नामकर्मणः सुभगादेययशः कीर्तयस्तिस्रो ध्रुवोदया अन्तरयपञ्चकमुच्चैर्गोत्रं केवलज्ञानावरणं केवलदर्शनावरणं निद्राद्विकं चेति पञ्चविंशतिप्रकृतीनां परिणामप्रत्ययत्वादवस्थितोऽनुभाग उदये वर्तते । उपश न्तमोहगुणस्थान केऽवस्थित परिणामसद्भावात् मतिज्ञानावरणश्रुतज्ञानावरणाऽवविज्ञानावरण मनः पर्यवज्ञानावरण चक्षुर्दर्शनावरणाऽचशुर्दर्शनावरणाऽवधिदर्शनावरणीय वेदनीयाद्विकमनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकद्विका-ऽऽद्यसंहननत्रिक संस्थानषट्कख गतिद्वि कोपघातपराघातश्वासोच्छ्वासत्र स चतुष्कसुस्वरदुःस्वररूपाण चतुस्त्रिंशतः प्रकृतीनां परिणामप्रत्ययाभावेन तदनुभाग उदये षट्स्थानपतितो वृद्धो हीनो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332