________________
穆
[ २१३
B. मोहेऽनुभागादयः ]
कृतगुणश्रेणिशीर्षसमये यत्सत्तागतगोपुच्छाकारदलिकं तत उत्तरोत्तरसमये सत्तागतगोपुच्छाकारदलिकस्य विशेषहीनत्वेन तदानीमुदयमानदलिकस्य न्यूनत्वसंभवात् । न चैवमपूर्वकरणप्रथमादिसमयकृतगलिताऽवशेषगुणश्रेणिशीर्षसमय उदयमान उत्कृष्टप्रदेशोदयः कथ न भवति ? यतो गलिताऽवशेषगुणश्रेणिशीपेऽपूर्वकरण प्रथम समयादारभ्योपशान्तमोहगुणस्थानकेऽपि दल प्रक्षिप्यत इति वाच्यम्, सूक्ष्म संपशयगुणश्रेणिचरम समयपर्यन्तनिक्षिप्तप्राक्तन गुणश्रेणिसर्वदलिकतोऽप्युपशान्तमोहगुणस्थानकस्य विशुद्धिमाहात्म्येन तद्गुणस्थानकप्रथमसमये गुणश्रेण्यर्थं गृह्यमाणदलिकस्याऽसंख्येयगुणत्वेन गलिताऽवशेषगुणश्रेणिशीर्ष उदयमान उत्कृष्ट प्रदेशोदयासंभवात् ।
ननु सूक्ष्मसंपरायगुणस्थानक नरम समयकृतगुणश्रेणिशीर्षसमय उपशान्तमोहगुणस्थानकप्रथमसमयकृतगुणश्रेणिशीर्षतोऽर्वाकू कथं प्राप्यत इति चेद् ! उच्यते - अल्पबहुत्वाऽधिकारे वक्ष्यते सूक्ष्मसंपरायचरमसमयकृतगुणश्रेण्यायामत उपशान्तमोह गुणस्थानकप्रथम समय कृतगुणश्रेण्यायामः संख्ये गुणः, तत्राऽक्षराणि त्वेवम् - "चरिमसमय सुहुमसां पराइयस्स गुणसेदणिकखेवो संखेज्जगुणो त चेव गुणसेढिसोसयं ति भण्णदि । उवसंतकसायस गुणसेहिणिक्खेवो संखेज्जगुणो ।" इति । इत्थमुपशान्तमोहगुणस्थानकप्रथमसमयकृतगुणश्रेण्यायामतः संख्ये यगुणहीनः सूक्ष्मसंपरायचरमसमयकृतगुणश्रेण्यायामो भवति । तेनोपशान्तमोहगुणस्थानकप्रथम समय कृतगुणश्रेण्यायामस्य संख्येयतमे भागे सूक्ष्म संपरायस्य चरमसमयकृत गुणश्रेणिशीपं प्राप्यते । ततः परं संख्येयेषु बहुभागेषु गतेषूपशान्तमोह गुणस्थानकप्रथमसमयकृतगुणश्रेणिशीर्षं प्राप्यते, अत उपशान्तमोह गुण स्थानक प्रथमसमय कृतगुण श्रेणिशीर्पतोsa सूक्ष्मसंपरायस्यगुणस्थानकचर मसमय कृतगुणश्रेणिशीर्षं लभ्यते ।
चारित्रमोहनोयोपशमनाधिकारः
अनुभाग:- उपशान्तमोहगुणस्थानके वेद्यमानपञ्चविंशतिप्रकृतीनामनुभागोऽवस्थितो भवति, कथमेतद्भवतीति चेद् ! उच्यते, नामकर्मणस्तैजसकार्मणशरीरवर्णगन्धरसस्पर्श स्थिराऽस्थिरशुभाऽशुभाऽगुरुलघुनिर्माणरूपा ध्रुवोदया द्वादश नामकर्मणः सुभगादेययशः कीर्तयस्तिस्रो ध्रुवोदया अन्तरयपञ्चकमुच्चैर्गोत्रं केवलज्ञानावरणं केवलदर्शनावरणं निद्राद्विकं चेति पञ्चविंशतिप्रकृतीनां परिणामप्रत्ययत्वादवस्थितोऽनुभाग उदये वर्तते । उपश न्तमोहगुणस्थान केऽवस्थित परिणामसद्भावात् मतिज्ञानावरणश्रुतज्ञानावरणाऽवविज्ञानावरण मनः पर्यवज्ञानावरण चक्षुर्दर्शनावरणाऽचशुर्दर्शनावरणाऽवधिदर्शनावरणीय वेदनीयाद्विकमनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकद्विका-ऽऽद्यसंहननत्रिक संस्थानषट्कख गतिद्वि कोपघातपराघातश्वासोच्छ्वासत्र स चतुष्कसुस्वरदुःस्वररूपाण चतुस्त्रिंशतः प्रकृतीनां परिणामप्रत्ययाभावेन तदनुभाग उदये षट्स्थानपतितो वृद्धो हीनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org