Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 267
________________ सूक्ष्मसंपराय उदयः गाथा ] चारित्रमोहनीयोपशमनाधिकारा [ २०९ कसाय पाहुडि ओकड्डगो वि उक्कड्डगो वि ।" इति । तथैव क्षपकश्रेण्यधिकारेऽपि "हंदि किटीकारगो किटोवेदगो वा दिट्ठी अणुभागेण ण उकडदित्ति" इति ।अत्र द्वितीयार्थ एवाऽऽश्रीयते, उदयसमयगताऽनुभागस्य वृद्धर्वा हानेर्वा संभवात् । उक्तं च कषायप्राभृते क्षपणाऽधिकारे "पच्छिम आवलिचाए समयूणाए दु जेय अणुभागा उक्करस हेहिमा मजिझमासु णियमा परिणमति ॥ २२८ ॥ इति । तच्चूर्णि-"विहासा पच्छिम आवलिया"त्ति, का सण्णाजा उदयावलिया सा पच्छिमावलिया तदो तिस्से उदयावलियाए उदयसमयं मोत्तण सेसेसु समएस जा संगहकिट्टी वेदिज्जमाणिगा तिस्से अंतरकिहोओ सव्वाओ ताव धरिज्जन्ति जाण ण उदयं पबिहाओ त्ति । उदयं जाधे पविट्ठाओ ताधे चेव तिस्से संगहकिट्टीए अग्गकिट्टीमादि कादूण उवरिं असंखेज्जदिमागो जहणियं किट्टीमादि कादूण हेहा असंखेज्जदिभागो घ मज्झिमकिटोसु परिणमदि"इति । ननु द्वितीयार्थे स्वीक्रियमाणे पूर्वोक्तदोषसंभवात्कथमसा आश्रीयते इति चेद् ? उच्यते, यद्यप्युदयावलिकायामपवर्तनोद्वर्तना वा न भवति, तथाऽप्युद्वर्तनाकरणेनाऽपवर्तनाकरणेनोदयगतानुभागस्य वृद्धि हानिर्वा संभवति, तथास्वभावात्, सा च नोद्वर्तनाकरणाऽपवर्तनाकरणसाध्या इत्यर्थः । सूक्ष्मसंपरायाद्धाप्रथमसमये याः किट्टयः किट्टिकरणद्धाप्रथमसमयकृतसकलकिट्टीनां सर्वोत्कृष्टकिटेरारभ्याऽग्रिमाऽसंख्येयभागप्रमाणायुक्ता आसन् , तद्गताऽधस्तनास्तदसंख्येयभागप्रमाणा अभिनवकिट्टयः पुनः सूक्ष्मसपरायस्य द्वितीये समये मुच्यन्त उदये न भवन्तीत्यर्थः । एवं किट्टिकरणाऽद्धायाश्चरमसमयकृतसकलकिट्टीनां सर्वजघन्यकिटेरारभ्य तदुपरितन्योऽसंख्येयप्रमाणा अभिनवाः किट्टयः पुनः सूक्ष्मसंपरायस्य द्वितीयसमये मुच्यन्त उदये न भवन्तीत्यर्थः, एवं प्र तथैव लब्धिसारेऽपि द्वितीयाऽर्थ प्राषितः, अक्षराणि त्वेवम्-सूक्ष्म कृष्टिकरणकालस्य प्रथमसमयकृतानां सूक्ष्मकृष्टीनां पल्याऽसंख्यातैकमात्रकृष्टयः स्वस्वरूपेण नोदयमागच्छन्ति शेषास्ते बहुभागा. द्वितीयादिद्विचरमसमयपर्यन्तेषु समयेषु कृतकृष्टयश्चरमसमयकृत कृष्टीनां पल्याऽसंख्यातबहुभागमात्रकृष्टयश्च स्वशक्तियुक्ता एवोदयमागच्छन्ति । चरमसमयकृतकृष्टीनां पल्याऽसंख्यातैकमागमात्रकृष्टयस्तु स्वशक्तिरूपेण नोदयमागच्छन्ति। या उदयमनागताः प्रथमसमयकृतकृष्टीनां चरमकृष्टेरारभ्य पल्यासंख्यातक भागप्रमिताः कृष्टयस्ताः स्वस्वरूपं परित्यज्य स्वशक्तेरनन्तगुणहीनशक्तिरूपतया परिणम्योदयमागच्छन्ति । याश्चाऽनुदयप्राप्ताश्चरमसमयकृतकृष्टीनां जघन्यकृष्टेरारभ्य पल्यासंख्यातैकमागप्रमाणाः कृष्टयस्ताश्चस्वस्वरूपं परित्यज्य स्वशक्तेरनन्तगुणशक्त्यात्मकतया परिणम्य मध्यमकृष्टि स्वरूपेणोदयमागच्छन्तीति तात्पर्यम् ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332