________________
सूक्ष्मसंपराय उदयः गाथा ] चारित्रमोहनीयोपशमनाधिकारा
[ २०९ कसाय पाहुडि ओकड्डगो वि उक्कड्डगो वि ।" इति । तथैव क्षपकश्रेण्यधिकारेऽपि "हंदि किटीकारगो किटोवेदगो वा दिट्ठी अणुभागेण ण उकडदित्ति" इति ।अत्र द्वितीयार्थ एवाऽऽश्रीयते, उदयसमयगताऽनुभागस्य वृद्धर्वा हानेर्वा संभवात् । उक्तं च कषायप्राभृते क्षपणाऽधिकारे
"पच्छिम आवलिचाए समयूणाए दु जेय अणुभागा
उक्करस हेहिमा मजिझमासु णियमा परिणमति ॥ २२८ ॥ इति । तच्चूर्णि-"विहासा पच्छिम आवलिया"त्ति, का सण्णाजा उदयावलिया सा पच्छिमावलिया तदो तिस्से उदयावलियाए उदयसमयं मोत्तण सेसेसु समएस जा संगहकिट्टी वेदिज्जमाणिगा तिस्से अंतरकिहोओ सव्वाओ ताव धरिज्जन्ति जाण ण उदयं पबिहाओ त्ति । उदयं जाधे पविट्ठाओ ताधे चेव तिस्से संगहकिट्टीए अग्गकिट्टीमादि कादूण उवरिं असंखेज्जदिमागो जहणियं किट्टीमादि कादूण हेहा असंखेज्जदिभागो घ मज्झिमकिटोसु परिणमदि"इति ।
ननु द्वितीयार्थे स्वीक्रियमाणे पूर्वोक्तदोषसंभवात्कथमसा आश्रीयते इति चेद् ? उच्यते, यद्यप्युदयावलिकायामपवर्तनोद्वर्तना वा न भवति, तथाऽप्युद्वर्तनाकरणेनाऽपवर्तनाकरणेनोदयगतानुभागस्य वृद्धि हानिर्वा संभवति, तथास्वभावात्, सा च नोद्वर्तनाकरणाऽपवर्तनाकरणसाध्या इत्यर्थः ।
सूक्ष्मसंपरायाद्धाप्रथमसमये याः किट्टयः किट्टिकरणद्धाप्रथमसमयकृतसकलकिट्टीनां सर्वोत्कृष्टकिटेरारभ्याऽग्रिमाऽसंख्येयभागप्रमाणायुक्ता आसन् , तद्गताऽधस्तनास्तदसंख्येयभागप्रमाणा अभिनवकिट्टयः पुनः सूक्ष्मसपरायस्य द्वितीये समये मुच्यन्त उदये न भवन्तीत्यर्थः । एवं किट्टिकरणाऽद्धायाश्चरमसमयकृतसकलकिट्टीनां सर्वजघन्यकिटेरारभ्य तदुपरितन्योऽसंख्येयप्रमाणा अभिनवाः किट्टयः पुनः सूक्ष्मसंपरायस्य द्वितीयसमये मुच्यन्त उदये न भवन्तीत्यर्थः, एवं
प्र तथैव लब्धिसारेऽपि द्वितीयाऽर्थ प्राषितः, अक्षराणि त्वेवम्-सूक्ष्म कृष्टिकरणकालस्य प्रथमसमयकृतानां सूक्ष्मकृष्टीनां पल्याऽसंख्यातैकमात्रकृष्टयः स्वस्वरूपेण नोदयमागच्छन्ति शेषास्ते बहुभागा. द्वितीयादिद्विचरमसमयपर्यन्तेषु समयेषु कृतकृष्टयश्चरमसमयकृत कृष्टीनां पल्याऽसंख्यातबहुभागमात्रकृष्टयश्च स्वशक्तियुक्ता एवोदयमागच्छन्ति । चरमसमयकृतकृष्टीनां पल्याऽसंख्यातैकमागमात्रकृष्टयस्तु स्वशक्तिरूपेण नोदयमागच्छन्ति। या उदयमनागताः प्रथमसमयकृतकृष्टीनां चरमकृष्टेरारभ्य पल्यासंख्यातक भागप्रमिताः कृष्टयस्ताः स्वस्वरूपं परित्यज्य स्वशक्तेरनन्तगुणहीनशक्तिरूपतया परिणम्योदयमागच्छन्ति । याश्चाऽनुदयप्राप्ताश्चरमसमयकृतकृष्टीनां जघन्यकृष्टेरारभ्य पल्यासंख्यातैकमागप्रमाणाः कृष्टयस्ताश्चस्वस्वरूपं परित्यज्य स्वशक्तेरनन्तगुणशक्त्यात्मकतया परिणम्य मध्यमकृष्टि स्वरूपेणोदयमागच्छन्तीति तात्पर्यम् ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org