________________
२०८ ]
उपशमनाकरणम्
[ गाथा ५४
गच्छन्ति द्वितीयसमय उत्कृष्टाऽनुभागाकिट्टरारभ्य पूर्वतोऽधिकाः किट्टीस्तथा सर्वजघन्यानुभागकिट्टरारभ्य पूर्वतो न्यूनाः किट्टीर्वजयित्वा शेषा उदये वर्तन्ते । एवं तावद्वक्तव्यम्, यावत्सूक्ष्मसंपरायस्थ चरमसमयः । उक्तं च कर्मप्रकृतिचूर्णी - वितियसभते उदिन्नाणं अस खेज्ज. भागं मुयंति हेतृतो अपुच्वं असंखेज्जणो एवं जाव सुहुमरागचरिमसमतो।" इति । भावार्थः पुनरयम्-सूक्ष्मसंपरायस्य प्रथमसमये किट्टिकरणाद्धाप्रथमसमयकृतोपरितना यावत्यः किट्टयो मुच्यन्ते, ततो द्वितीयसमयेऽसंख्यातमागेनाऽधिका उपरितना विमुच्यन्तेऽधस्ताच्च सर्वजघन्याऽनुभागकिट्टरारभ्य यावत्यः किट्टयो मुक्तास्तद्गततीव्राऽनुभागकिट्ट रारभ्य द्वितीयसमयेऽसंख्यातभागप्रमाणा अधस्तनाः किट्टीगृहीत्वोदयन्ति । इदमुक्तं भवति-द्वितीयसमये प्रथमसमयतः सर्वमन्दानुभागकिट्टरारभ्याऽसंख्येयभागहीना मुच्यन्त उदयप्राप्ताः हियो मुच्यन्त इति यदुप. युक्तम् , तस्य द्विधा व्याख्यानं भवितुमर्हति-(१) उदये तावतीः किट्टीनं गलाति, तावदनुभागाः किय उदये न भवन्तीत्यर्थः । एवमुदीरणाकरणेनाऽपि ताः किट्टय उदये न भवन्तीति प्रथमव्याख्यानम् । (२) सूक्ष्मसंपरायस्य प्रथमस्थितिं कुर्वस्तत्सर्वनिषेकेषु सर्व किट्टिगतदलं विरचयति । तत्र प्रथमसमये या वय॑न्ते, ताः स्वरूपतो न वेदयति, अपि तु तासामनुभागमल्पीकृत्याऽभिबऱ्या वाऽनुभवति, रमस्य वृद्धिर्हानिर्वोदयसमये भवतीत्यपरार्थः वज्जिय' इति पदस्याऽर्थः स्वरूपतऽननुभूय'मुयंतो 'इति पदस्याप्यर्थः स्वरूपतोऽननुभवन्निति कर्तव्यः ।।
प्रथमाऽर्थ दोषापत्तिः-प्रथमाऽर्थे स्वीक्रियमाणे कर्मप्रकृतिची- "उदिन्नाणं असंखेज्जहभागं मुयति" त्ति, सूक्ष्मसंपरायद्वितीयसमये यदुक्तं तन्न घटते, उदयप्राप्तानां दलिकानां विपाकोदयतः प्रदेशोदयतो वा विनाशस्याऽवश्यंभावेन तद्वर्जनस्य वैफल्यप्रसंगात । द्वितीयाऽर्थे दोषाऽऽपत्तिः-द्वितीयार्थे स्वीक्रियमाण उदयावलिकायां प्रविष्टानां किट्टीनामनुभागरूपवृद्धिर्हानिर्वा कथं भवेत् ? उदयावलिवर्जशेषसर्वाऽनुभाग उद्वर्तनाकरणेनाऽपवर्तनाकरणेन वा साध्यः । उक्तं च कषायप्राभृते-सव्वे षि य अणुभागे ओकडदि जे ण आवलियपवितु । उक्कडुदि बंधसमे णिरूवक्कम होदि आवलिया ॥१५९॥ इति ।
तच्चूर्णि:-उदयावलिपविढे अणु भागे मोत्तण सेसे सव्वे चेव अणुभागे ओकडदि एवं चेव उक्कडदि।" इति । किश्चाऽऽरोहकस्य किट्टिकरणाद्धा प्रथमसमयादारभ्य सूक्ष्मसंपरायचरमसमयपर्यन्तमुद्वर्तना न भवति । तथा चाऽत्र कषायप्राभृतः-किट्टी करेदि णियमा ओवह तो ठिदी य अणुभागे। वड्तो किट्टीए अकारगो होदि बोडवो ।। १६४ ॥ इति ।
तच्चूर्णि:-"उवसामगो पुण पढमसमय किटोकारगमोदि कादूण जाव चरिम समयकसायो ताव ओकड्डगो ण पुण उक्कडगो । पडिवदमाणगी पुण पढमसमय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org